________________ // 151 // // 152 // // 153 // // 154 // // 155 // // 156 // चार्वाकैः कौलिकैविप्रैः, सौगतैः पाञ्चारात्रिकैः / असत्येनैव विक्रम्य, जगदेतद्विडम्बितम् / अहो पुरंजलस्रोतः, सोदरं तन्मुखोदरम् / निःसरन्ति यतो वाचः, पङ्काकुलजलोपमाः दावानलेन ज्वलता, परिप्लुष्टोऽपि पादपः / सान्द्रीभवति लोकोऽयं, न तु दुर्वचनाग्निना चन्दनं चन्द्रिका चन्द्र-मणयो मौक्तिकस्रजः। आह्लादयन्ति न तथा, यथा वाक् सूनृता नृणाम् शिखि मुण्डी जटी नग्नश्चीवरी यस्तपस्यति / सोऽपि मिथ्या यदि ब्रूते, निन्द्यः स्यादन्त्यजादपि एकत्राऽसत्यजं पापं, पापं नि:शेषमन्यतः / द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते. पारदारिकदस्यूना-मस्ति काचित्प्रतिक्रिया। . असत्यवादिनः पुंसः, प्रतीकारो न विद्यते. दौर्भाग्यं प्रेष्यतां दास्य-मङ्गच्छेदं दरिद्रताम् / अदत्तात्तफलं ज्ञात्वा, स्थूलस्तेयं विवर्जयेत् पतितं विस्मृतं नष्टं, स्थितं स्थापितमाहितम् / अदत्तं नाददीत स्वं, परकीयं वचित्सुधीः अयं लोकः परलोको-धर्मो धैर्य धृतिर्मतिः / मुष्णता परकीयं स्वं, मुषितं सर्वमप्यदः / एकस्यैकं क्षणं दुःखं, मार्यमाणस्य जायते / सपुत्रपौत्रस्य पुन-र्यावज्जीवं हृते धने चौर्य्यपापद्रुमस्येह, वधबन्धादिकं फलम् / जायते परलोके तु, फलं नरकवेदना // 157 // // 121 // // 122 // // 123 // // 124 // // 125 //