________________ // 125 // // 126 // // 127 // // 128 // // 129 // // 130 // केचिद्वदन्ति हन्तव्याः, प्राणिनः प्राणिघातिनः / हिंस्रस्यैकस्य घाते स्या-द्रक्षणं भूयसां किल तदयुक्तमशेषाणां, हिंस्रत्वात्प्राणिनामिह / हन्तव्यता स्यात्तल्लाभ-मिच्छोर्मूलक्षतिः स्फुय अहिंसासम्भवो धर्मः, स हिंसातः कथं भवेत् / न तोयजानि पद्मानि, जायन्ते जातवेदसः? पापहेतुर्वधः पापं, कथं छेत्तुमलं भवेत् / मृत्युहेतुः कालकूटं जीविताय न जायते संसारमोचकास्त्वाहु-दुःखिनां वध इष्यताम् / विनाशे दुःखिनां दुःख-विनाशो जायते किल तदप्यसाम्प्रतं ते हि, हता नरकगामिनः / . अनन्तेषु नियोज्यन्ते, दुःखेषु स्वल्पदुःखकाः किं च सौख्यवतां घाते, धर्म: स्यात्पापवारणात् / इत्थं विचार्य हेयानि, वचनानि कुतीथिनाम् चार्वाकाः प्राहुरात्मैव, तावन्नास्ति कथञ्चन / तं विना कस्य सा हिंसा, कस्य हिंसाफलं भवेत् भूतेभ्य एव चैतन्यं, पिष्टादिभ्यो यथा मदः / भूतसंहतिनाशे च, पञ्चत्वमिति कथ्यते. आत्माऽभावे च तन्मूलः, परलोको न. युज्यते / अभावे परलोकस्य, पुण्यापुण्यकथा वृथा तपांसि यातनाश्चित्राः, संयमो भोगवञ्चना। इति विप्रतिपत्तिभ्यः, परेभ्यः परिभाष्यते स्वसंवेदनतः सिद्धः, स्वदेहे जीव इष्यताम् / अहं दु:खी सुखी वाह-मिति प्रत्यययोगतः ... . 51 // 131 // // 132 // // 133 // // 134 // // 135 // // 136 //