________________ उपाध्यायश्रीसकलचन्द्रजीकृता // ध्यानदीपिका // सर्वर्द्धिलब्धिसिद्धीशैर्योगीन्द्रैर्वृतमिष्टदम् / निष्पापं पापहं वन्दे सर्वं सर्वज्ञमण्डलम् ब्रह्मज्ञानानन्दे लीनार्हत्सिद्धसाधुसंदोहम् / / स्मृत्वा ध्यानकृतेऽहं ध्यानाध्वगदीपिकां वक्ष्ये // 2 // जैनागमार्थानवलम्ब्य मोहध्वान्तान्तकृत्री शमशुद्धिदात्री। ध्यानार्थिभिः स्वान्तगृहे विधेया नित्यं निजोद्योतकृते कृतीशैः॥ 3 // जीवो ह्यनादिमलिनो मोहान्धोऽयं च हेतुना येन / शुध्यति तत्तस्य हितं तच्च तपस्तच्च विज्ञानम् // 4 // जन्मजरामरणभयैः पीडितमालोक्य विश्वमनगाराः / निःसङ्गत्वं कृत्वाध्यानार्थं भावनां जग्मुः भूतेषु भज समत्वं चिन्तय चित्ते निजात्मरूपं च / मनसः शुद्धिं कृत्वा भावय चित्तं च भावनया भावना द्वादशैतास्ता अनित्यादिकताः स्मृताः / ज्ञानदर्शनचारित्र्यं वैराग्याद्यास्तथा पराः वाचना पृच्छना साधुप्रेक्षणं परिवर्तनम् / सद्धर्मदर्शनं चेति ज्ञातव्या ज्ञानभावना संवेगः प्रशमः स्थैर्य-मसंमूढत्वमस्मयः / आस्तिक्यमनुकम्पेति ज्ञेया सम्यक्त्वभावना ईर्यादिविषया यत्ना मनोवाक्कायगुप्तयः / परीषहसहिष्णुत्वमिति चारित्र्यभावना // 10 // विषयेष्वनभिष्वङ्गः कार्यं तत्त्वानुचिन्तनम् / .. जगत्स्वभावचिन्तेति वैराग्यस्थैर्यभावना // 11 // // 7 // // 8 //