________________ // 33 // // 34 // // 35 // // 36 // // 37 // बुद्धवाऽलीकभ्रमं सौख्ये, संवेगापूर्णमानसः / तथापि कोऽपि कामेभ्यः, पुण्यात्मा विनिवर्तते धर्मसर्वस्वमाख्याय, शिक्षां जीव ! वदामि ते / यावज्जीवं त्वयाऽध्येयमेतत् श्लोकचतुष्टयम् औषधं नेत्रदानं च, विरेकश्चित्रकर्मकः / यथैव पृष्ठतो रम्यं, धर्माख्यानमिदं तथा संसारनाटकं सर्वं, पश्यत्युत्फुल्ललोचनः / स्वदेहनाटकं स्पष्टं, कश्चिन्नेक्षेत मूढधी: बाल्यतारुण्यवृद्धत्वहास्यरोदनखेदनम् / विषादानन्दकोपादि, कोटिशः पश्य कौतुकम् रहस्यं भण्यसे वत्स !, मा भूच्छिद्रघटोपमः / . मा कार्षीः पृष्ठतः खेदं, कालदष्टो न चेच्छृणु स्वस्थोऽपि वत्स ! नो वेत्सि, मयाऽऽख्यातं मुहुर्मुहुः / जातजातिस्मरः प्रेत्य, कर्ताऽसि हस्तघर्षणम् कल्याणं मङ्गलं कर्तुमिहामुत्र च मानवैः / मन्यमानैः सुधापानं, श्रोतव्या धर्मदेशना सुलभा धर्मवक्तारो, यथा पुस्तकवाचकाः / ये कुर्वन्ति स्वयं धर्म, विरलास्ते महीतले कुर्वन्तोऽपि विलोक्यन्ते, सामग्रीवशतः क्वचित् / ये दृश्यास्ते पुनः केऽपि, संवेगामृतपूरिताः संवेगामृतहीनोऽपि, धर्मरत्नविनाकृतः / विधत्तेऽमीषु यः श्रद्धां, सोऽपि धन्यः कलौ किल // 38 // // 39 // // 40 // // 41 // // 42 // // 43 // 10