________________ वसेयुः खग्रामा यदमलचिदध्यासकलिता लभन्ते शून्यत्वं क्षणमपि तदध्यासवियुताः। अथादत्ते तेभ्यो विषयरसनाख्यं करमलं स एवायं देवो निजपदमितः कस्य न मुदे // 25 // जगद् भासा यस्य स्फुरति सहजानन्दसरसं स्थितं विश्वं व्याप्योल्लसदमलचिद्दीप्तिपटलैः / अवाग्व्यापारं यत् कृतिविधुरमत्यन्तगहनं परं पूर्णं ज्योतिर्दलितदृढमोहं विजयते // 26 // राग-द्वेषद्वितयमुदितं यस्य नैवास्ति सर्वद्रव्येष्वात्मस्थितदृढमतेर्निर्विकारानुभूतेः / टकोत्कीर्णप्रकृतिकलसंज्ञानसर्वस्वभाजो यत् कर्म स्यात् तदिदमुदितं बन्धकृज्जातु नैव // 27 // मत्तो यस्मिन् स्वपिषि न पदं तावकं भावकं प्र(तत्) त्वाधायीदं परपदमिति प्रोज्झ दूरं महात्मन् ! यस्मिन् शुद्धः स्वरसवशतः स्थायितामेति भावस्तत् स्वं रूपं झटिति कलयन् मुच्यसे किं न बन्धो! // 28 // इदं हि नानाभवपादपानां मूलोद्भिदं शस्त्रमुदारहन्ति। सध्याननिष्णातमुनीश्वराणां ध्येयं तदेतत् कृतिभिः प्रदिष्टम्॥ 29 // कर्मकाण्डदुरवापमिदं हि प्राप्यते विमलबोधबलेन / खिद्यते किमु वृथैव जनस्तद् देहदण्डनमुखैः कृतिकाण्डैः // 30 // अज्ञानंतो यदिह किञ्चिदपि न्यगादि, जैनागमार्थमतिलङ्घ्य मया विरुद्धम् / तच्छोधयन्तु निपुणाः स्वपरार्थदक्षाछद्मस्थधी नु यतः स्खलनस्वभावा // 31 // ' 15