________________ // 14 // // 15 // अविद्यासंस्काराद् बहुतरककालाद् यदभवच्च्युतं मे स्वं रूपं तदिदमुपलब्धं खलु मया / विविक्तं चिद्भासा परिगतमनन्तं सुविशदं स्वतन्त्रं तत्रेदं जयति ननु बीजं जिनवचः मथित्वाऽऽत्माऽऽत्मानं भवति परमज्योतिरचिराद् यथा घृष्ट्वाऽऽत्मानं क्षितिरुह इहैति ज्वलनताम् / अतः शुद्धे ब्रह्मण्यनवरतनिमग्ना[ऽम]लदृशां शिवाप्तिनिर्दिष्टा सरणिरपरा काचन न हि यथा रज्जौ सर्पभ्रममतिरविज्ञानजनिता क्रियाहेतुर्भूत्वा बुधमपि चिरं व्याकुलयति / तथा देहेऽप्यस्मिन्नहमिति विपर्यस्तधिषणा भवभ्रान्तेर्मूलं परमपुरुषस्यापि समभूत् चिरं सुप्ता ह्येते गुरुभवभवदुःखतलिने दृढाविद्यानिद्रापरिगतविवेकेक्षणपुटाः / . भृशं स्वप्नायन्तेऽहमिति च परं मामकमिति व्यवस्यन्तः सन्तः कुगतिभवनेऽमी भवभृतः प्रविज्ञाते यस्मिन्नतिशयितचिच्छक्तिकवलीकृतत्रैलोक्ये किं समवगमयोग्यं किल परम् / अविज्ञाते त्वस्मिन्नतिनिशितशास्त्रार्थपटुता श्रमायैवात्यन्तं भ्रमकृततुषाऽऽकण्डनमिव भवाबन्धः सर्वोऽनुभवपदवीं यत्र विशति . ग्रहाधीशे व्योमाङ्गणमिव तमस्त्रुट्यतितमाम् / भिदामेति क्षिप्रं निबिडतरहृद्ग्रन्थिरपि तत् पदं शान्तं भाव्यं सततमुपयुक्तैर्यतिवरैः // 17 // // 18 // 13