________________ // 20 // // 1 // .. // 2 // तत्त्वचिन्तनया शास्त्रा-ऽनुगामिन्या मनः शिवे। आत्मन्येव निबध्नाति, योगी नेन्द्रियगोचरे . मनसि श्रद्धया धर्मो, न कृतोपि फलप्रदः / बलभद्र इव ब्रह्म-लोकभाग् ध्यानवान्मृगः ॥पञ्चदशोऽध्यायः // 15 // * श्री गौतम उवाच ऐन्द्रपूज्य ! जगन्नाथ ! प्रसादेन निवेदय / किं तत्त्वं विदुषां ज्ञेयं, साधनं शिवसम्पदः श्री भगवानुवाच सत्त्वरूपं महातत्त्वं, यद् ब्रह्मेत्यभिधीयते। तदेकं परमं वस्तु, द्वैतं तत्र न भासते भावः पदार्थः सद्रूपो-ऽस्तिक्रियार्थः परो गुणी। शुद्धद्रव्यं तथा धारः, प्रमेयश्चाऽभिधान्वयी अनन्तः परिणामी चा-नन्तशक्तिधरः स्वभूः / लोकालोकतया ख्यातः, सिद्धो बुद्धः शिवोऽव्ययः स्यादेकं केवलं ज्ञानं, ज्ञेयं तस्यैकमिष्यते। ज्ञानाद् ज्ञेयं न भिन्नं स्यात्सर्वथा स्वप्रकाशवत् ज्ञेयग्रहपरिणामाद्, ज्ञानी ज्ञेयाकृतिः स्मृतः / तेनात्मा भगवान् विष्णु-रर्हन् ब्रह्ममयः स्वयम् लोकालोकस्वरूपज्ञः, स लोकालोक उच्यते / अग्निज्ञानादिव ज्ञाता, ऽऽगमेप्यग्निरूदीरितः यदैकत्वविमर्श: स्या-त्तदैव केवलोदयः / / ध्रौव्यभावनया द्रव्यं, विकृतं न कृतं क्वचित् / / // 3 // // 4 // // 5 // // 7 // // 8 // 182