________________ // 23 // // 24 // // 25 // // 26 // // 27 // वेत्ता सर्वस्य भावस्य वेद्यं च परमं हि यः / / अनाद्यनन्तो निर्द्वन्द्वो महानन्दो महोदयः विकल्पैरपरामृष्टः स्पृष्टः कर्माणुभिर्न च / परं ज्योतिः परं तत्त्वं तदेवाहं न चापरम् अणोरणीयान् महतो महीयानपि यः पुनः / यस्य भासा जगत् सर्वं भात्यलक्ष्यः पुनः स्वयम् विषमश्नन् यथा वैद्यो विक्रियां नोपगच्छति / कर्मोदये तथा भुञ्जानोऽपि ज्ञानी न बध्यते मन्त्रादिध्वस्तसामर्थ्यो न दहत्यनलो यथा / बढुं नालं तथा ज्ञानशक्तिकुण्ठीकृतोऽप्ययम् मद्यं पिबन् यथा मत्तो न स्यादरतिमान् पुमान् / द्रव्यभोगं तथा कुर्वन् सम्यग्दृष्टिर्न लिप्यते स्वरूपनिष्ठाः सर्वेऽपि भावा इति जिनेशगीः / तान् मत्वाऽऽत्मतया कर्तृ-कर्मक्लेशो वृथैव किम् ? भावा:स्वरूपविश्रान्ता लोके सर्वेऽत्र यद्यमी / मूढो हन्ताहमेवैको रज्ये यत् परवस्तुषु न रज्यते न च द्वेष्टि परभावेषु निर्ममः / ज्ञानमात्रं स्वरूपं स्वं पश्यन्नात्मरतिर्मुनिः इत्येवं स्व-परद्धयास्खलितचिच्छक्त्या विभाव्य स्फुटं भेदं स्वेतरयोविहाय च परान् भावान् समग्रानमून् / चित्तत्त्वे स्थिरतामुपैति परमां यो निर्विकाराशयः / स स्यात् कर्मकलङ्कपङ्कविकलो नित्यस्फुरच्चिद्घनः // 28 // // 29 // // 30 // // 31 // // 32 // 10