________________ सत्येतस्मिन्नरतिरतिदं गृह्यते वस्तु दूरादप्यासन्नेऽप्यसति तु मनस्याप्यते नैव किञ्चित् / पुंसामित्यप्यवगतवृतामुन्मनीभावहेताविच्छा बाढं न भवति कथं सद्गुरूपासनायाम् // 1006 // तांस्तानापरमेश्वरादपि परान् भावैः प्रसादं नयन्, तैस्तैस्तत्तदुपायमूढ भगवन्नात्मन् किमायस्यसि / हन्तात्मानमपि प्रसादय मनाग् येनासतां संपदः, साम्राज्यं परमेऽपि तेजसि तव प्राज्यं समुज्जृम्भते // 1007 // या शास्त्रात्सुगुरोर्मुखादनुभवाच्चाज्ञायि किञ्चित् क्वचित्, योगस्योपनिषद्विवेकिपरिषच्चेतश्चमत्कारिणी / श्रीचौलुक्यकुमारपालनृपतेरत्यर्थमभ्यर्थनादाचार्येण निवेशिता पथि गिरां श्रीहेमचन्द्रेण सा // 1008 // 153