________________ अनया युक्त्याऽभ्यासं विदधानस्यातिलोलमपि चेतः / अङ्गुल्यग्रस्थापितदण्ड इव स्थैर्यमाश्रयति . // 983 // निःसृत्यादौ दृष्टिः संलीना यत्र कुत्रचित्स्थाने / तत्रासाद्य स्थैर्यं शनैः शनैविलयमाप्नोति // 984 // सर्वत्रापि प्रसृता प्रत्यग्भूता शनैः शनैर्दृष्टिः / परतत्त्वामलमुकुरे निरीक्षते ह्यात्मनाऽऽत्मानम् // 985 // औदासीन्यनिमग्नः प्रयत्नपरिवर्जितः सततमात्मा / भावितपरमानन्दः क्वचिदपि न मनो नियोजयति // 986 // करणानि नाधितिष्ठत्युपेक्षितं चित्तमात्मना जातु / ग्राह्ये ततो निजनिजे करणान्यपि न प्रवर्तन्ते // 987 // नात्मा प्रेरयति मनो न मनः प्रेरयति यहि करणानि / उभयभ्रष्टं तर्हि स्वयमेव विनाशमाप्नोति // 988 // नष्टे मनसि समन्तात् सकले विलयं च सर्वतो याते / निष्कलमुदेति तत्त्वं निर्वातस्थायिदीप इव . // 989 // अङ्गमृदुत्वनिदानं स्वेदनमर्दनविवर्जनेनापि / . स्निग्धीकरणमतैलं प्रकाशमानं हि तत्त्वमिदम् // 990 // अमनस्कतया संजायमानया नाशिते मनःशल्ये / शिथिलीभवति शरीरं छत्रमिव स्तब्धतां त्यक्त्वा // 991 // शल्यीभूतस्यान्तःकरणस्य क्लेशदायिनः सततम् / अमनस्कतां विनाऽन्यद् विशल्यकरणौषधं नास्ति // 992 // कदलीवच्चाविद्या लोलेन्द्रियपत्रला मन:कन्दा / अमनस्कफले दृष्टे नश्यति सर्वप्रकारेण // 993 // अतिचञ्चलमतिसूक्ष्मं दुर्लक्ष्यं वेगवत्तया चेतः / अश्रान्तमप्रमादादमनस्कशलाकया भिन्द्यात् // 994 // 151