________________ // 2 // // 3 // // 4 // // विंशतितमी दृष्टिप्रबोधद्वात्रिंशिका // उत्पादविगंमध्रौव्यद्रव्यपर्यायसंग्रहम् / कृत्स्नं श्रीवर्धमानस्य वर्धमानस्य शासनम् अपायापोहतोऽन्योऽन्यं हन्यतो वा तदेव वा / ग्रन्थार्थः स्वपरान्वर्थो विध्युपायविकल्पतः वाक्चिकित्सितमानाध्वमणिरागादिभक्तिवत् / नानात्वैक्योभयानुक्तिविषमं सममर्थतः प्रमाणान्यनुवर्तन्ते विषये सर्ववादिनाम् / संज्ञाभिप्रायभेदात्तु विवदन्ति तपस्विनः न यथार्थपरिज्ञानाद्दोषशान्तिर्न वान्यथा / प्रकोपसमसामान्याव्यभिचाराच्च तद्वताम् येन दोषा निरुध्यन्ते ज्ञानेनाचरितेन वा। स सोऽभ्युपायस्तच्छान्तावनासक्तमवेद्यवत् . यथाप्रकारा यावन्तः संसारावेशहेतवः / तावन्तस्तद्विपर्यासा निर्वाणावाप्तिहेतवः सामान्यं सर्वसत्त्वानामवश्यं जन्मकारणम् / शरीरेन्द्रियभोगानामविशिष्टं विशिष्यते विकल्पप्रभवं जन्म सामान्यं नातिवर्तते / - हेतावपचिते शेषं कि परिज्ञाय का न वा.. गुरुलाघवसंदिग्धविपरीताः प्रतिक्रियाः / लघ्वसंदिग्धविज्ञानं त्वास्य द्विष्टस्य सिध्यति द्रव्यसत्त्वादिनानात्वं नानेति सममात्मनः / विषयेन्द्रियचेतस्यमनेनाहमनीत वां // 6 // // 7 // // 8 // // 9 // // 10 // // 11 // 81