________________ // 9 // // 10 // // 11 // - // 12 // // 13 // // 14 // अर्थव्यञ्जनयोरेवमर्थस्तु स्मृतिचक्षुषोः / सर्वोपयोगद्वैविध्यमनेनोक्तमनक्षरम् प्रकाशमनसोश्चक्षुस्तुल्यमाप्तगतार्थवत् / विकृष्टेतरयोर्व्यक्तिर्गम्यते चार्थशक्तितः परस्परस्पृष्टगतिर्भावनापचया ध्वनिः / बद्धस्पृष्टगमद्व्यादिस्नेहरौक्ष्यातिशायनात् वैयर्थ्यातिप्रसङ्गाभ्यां न मत्यभ्यधिकं श्रुतम् / सर्वेभ्यः केवलं चक्षुस्तमःक्रमविवेकवत् नश्यन्ति विषयाख्याते योक्तव्या दोषता न चेत् / त्रितयानियतादेकसामान्याद्वा बहुष्वपि दोषपङ्क्तिर्मतिज्ञानानं किञ्चिदपि केवलात् / तमःप्रवया निःशेषविशुद्धिः फलमेव तत् समग्रविषयं ज्ञानमवश्यं यस्य कस्यचित् / तस्य वृत्त्यन्तरापत्तेर्नान्यदावरणं क्षयात् वृक्षाद्यालोकवत्कृत्स्नं स्तोकाख्यानमनेकधा / अत्यन्तानुपलब्धिर्वा विशिष्टे ज्ञानदर्शने प्रार्थनाप्रतिघाताभ्यां वेद्यन्ते(वेष्ट्यते)द्वीन्द्रियादयः / / मनःपर्यायविज्ञानं युक्तं तेषु म वान्यथा निमित्तमन्तण्यत्तं चतुष्कमपरं फलम् / . .. मनुष्यतिर्यग्भवयोः कर्मायुष्कपुरःसरम् निश्चितं मोहवेद्ये वा प्रसङ्गानुपपत्तितः / एकं नैकानुभावं वा बीजाद्यर्थप्रकारवत् परिणामफलं कर्म परिणामस्तदात्मकः / तयोरन्योऽन्यसादृश्यं युक्तं नानेकधर्मतः // 15 // // 16 // // 17 // // 18 // // 19 // // 20 //