________________ // 3 // // 4 // // 6 // // 7 // // 8 // सुव्रतानि यमं वृत्तं यथाध्यात्मविनिश्चयम् / दीक्षाचारस्तु शैक्षाणां वर्त्मस्थैर्यानुवृत्तये अपुण्यप्रतिषेधो वा व्रतं पुण्यागमोऽपि वा। युगपत्क्रमशो वेति विपक्षोरुभयं भयम् व्रताभ्युपंगमः शुद्धः परिणामो न नेष्यते / तदानन्तर्यवृत्तिस्तु मिथ्यादृष्टिर्निवार्यते न मिथ्यादर्शनात् पापं न सम्यग्दर्शनाच्छुभम् / न च नेति कषायाणां तवृत्त्यव्यतिरेकतः क्षयवृद्धिः कषायाणां मिथ्यादृष्टिरसंक्रमात् / वैषम्यलक्षणो बन्धस्तदाद्यस्तु विकल्पतः मिथ्यादृष्टेरभिन्नायाः पञ्च चैकक्षणाश्रवे / कायिकादिक्रियाचार: पापमेवेत्यसंशयम् नान्योऽन्यमनुवर्तेत कृताभ्युपगमेतरौ / तुल्यदोषगुणस्थानौ न कषामक्रमोऽप्यतः कषायचिह्न हिंसादि प्रतिषेधस्तदाश्रयः / अपायोद्वेजनो बालो भीरूणामुपदिश्यते हिंसादिवत्कषायेभ्यो न जन्ममरणापदः / निमित्तान्तरहेतुत्वाद्गुणतस्तूपचर्यते कल्पाकल्पमतो द्रव्यमचिन्त्यं सर्पिरादिवत् / दोषप्रचयवैषम्यादातुरस्तु परीक्ष्यते / एकमूर्तिः परीणामः शुद्धिराचारलक्षणम् / गुणप्रत्येकवृत्तानां पुरुषाशयशक्तितः क्रोधजिह्मपरिष्वङ्गमानवेदाम्बुमक्षयाः / युगपद्वा तमो विद्याद्यावद्यत्रानुषिध्यते - // 9 // // 10 // पचयत // 11 // // 12 // // 13 // // 14 //