________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // धर्मादष्टाङ्गता बुद्धेर्न विरोधकृते च यैः / वक्तुराद्यनिमित्तत्वाद्वितथप्रत्ययादपि असतो हेतुतो वेति प्रतिसन्धौ च विग्रहः / असंस्तु हेतुर्थीमात्रं कर्तेति च विशिष्यते भङ्गुरश्रवणाद्यर्थसंविन्मात्रे निरात्मके। रागादिशान्तौ यत्नस्ते कथं कस्य किमित्ययम् कर्मजः प्रत्ययो नाम कर्म च प्रत्ययात्मकम् / तत्फलं निरयाद्यश्च न च सर्वत्र विस्मृतः ज्ञानमव्यभिचारं चेज्जिनानां मा श्रमं कृथाः / अथ तत्राप्यनेकान्तो जिनाः स्मः किं तु को भवान् एकेन्द्रियाणामव्यक्तेरजात्यन्तरसंगतौ / व्यक्तानां च तदादौ का रागादिप्रविभक्तयः न संसरत्यतः कश्चित् स्वपरोभयहेतुकम्।। अभिजातिविशेषात्तु मिथ्यावादमुखो जनः चैतन्यमपि नः सत्त्वो मोहादिज्ञानलक्षणः। . तदादि तद्वत्संकल्पो मिथ्याराशिः प्रवर्तते तुल्यप्रसङ्गो नानात्वे तुल्येनैकेन बाध्यते / अकस्मात्कारणावेशौ हेतुधर्माविशेषतः . स्पर्शनादिमनोऽन्तानि भूतसामान्यजातिमान् / ' मनोहन्नियतं द्रव्यं परिणाम्यनुमूर्ति च / स्पर्शकविषयत्वादिस्तत्त्वान्ताः क्रमजातयः / अरूपादनभिव्यक्तभेदाः कृष्णाभिजातयः यथा दुःखादिनिरयस्तिर्यक्षु पुरुषोत्तमाः / रक्तायामजनायां तु सुखजा न गुणोत्तराः // 18 // // 19 // // 20 // // 21 // // 22 // // 23 //