________________ // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // न पूर्वा न परा कोटी विद्यते वाक्फलं मतेः / पूर्वविप्रतिषेधस्तु हेतुप्रत्ययसंभवात् अहेतुप्रत्ययनयं पूर्वापरसमाभवम् / विज्ञानं तत्समुत्थं कः संव्यवस्येद्विचक्षणः दर्पणस्थमिव प्रज्ञामुखबिम्बमतन्मयम् / तत्समुत्थं च मन्यन्ते तद्वत्प्रत्ययजन्मनः न सामग्रीस्वभावोऽयमतो नाज्ञानभेदतः / स्वप्नोपलब्धस्मरणं निवृत्तिश्च न नेत्यपि न चानिष्टप्रयोगो नः कुशलप्रतिपत्तिवत् / मन्यमानो हि दोषं वा गुणं वा परिकल्पयेत् पटहध्वनिवल्लोकः कल्पनामनुवर्तते। यतः स्वभावो भावो वा तस्य वक्तुं न युज्यते / न चोपदेशवैफल्यं रूपं विज्ञानजन्मवत् / दुःखमुत्पद्यते तस्य स्वार्थहानमयुक्तिवत् न चास्यागन्तुसंक्लेशः शुद्धिर्वा भक्तयस्त्विमाः। स्मृतिसङ्गसमः किं तु तेजस्यरणिवृत्तिवत् वि(चि)त्तचारवशात्सङ्गः स्मृतिवन्न विरुध्यते / * संस्कारायतनापेक्षं निरोधापत्त्यनन्तरम् / अङ्कुरव्यक्तिनिष्पत्तिश्चेतः सत्त्वस्य तत्कथम् / अविद्यातृष्णयोर्यद्वन्न नामत्वं न चैकता : समविज्ञानयोस्तद्ववेद्येकान्तमतः शिवम् / श्रोतःप्राप्त्यादिरस्यास्तु विकल्पोऽरणिवह्निवत् एकचित्तेऽपि वा कृत्स्नदुःखज्ञानोपपत्तितः / ग्राममोहक्षमोदर्कः शासनप्रणयो मुनेः // 26 // // 27 // // 28 // // 29 // // 30 // // 31 //