________________ // 11 // // 12 // // 13 // // 14 // // 15 // // 16 // अविद्यार्थानवगमो विरूपाप्रतिपत्तितः। हेत्वाभासश्च निर्वादेष्वियमेव तु भूयसी किंचित्सामान्यवैशेष्यादयुक्तार्थोपपदानम् / छलं तदिति वैस्पष्ट्याद्वाच्याभिप्रायभेदतः व्यभिचारात् परं नास्ति परपक्षप्रदूषणम् / हेतुपर्यन्तयोगाच्च तस्मात्पक्षोत्तरो भवेत् : संशयप्रतिदृष्टान्तविरोधापत्तिहानयः / प्रतिपक्षविकल्पौ च व्यभिचारार्थय॑याः अकारणत्वानिर्देशः साध्यत्वात्त्वनुयोगजाः। ..... हेत्वन्तराभ्युपगमः पुनरुक्तान्यतः परम् एकपक्षहता बुद्धिजल्पवाग्यंन्त्रपीडिता। श्रुतसंभावनावैरी वैरस्यं प्रतिपद्यते' तानुपेत्य वितण्डास्ति नयस्येति विचारणा / सैव जल्पे विपर्यासो वितण्डैवेति लक्ष्यते .. न सिद्धान्ताभ्युपगमादितर: सार्वतन्त्रिकः / यस्येत्युक्तमनेकान्तादितरं नानुषज्यते विनिर्णयान्न संदेहः सर्वथोत्तरसंभवात् / स एव हेतुश्चक्षुर्वन्नानिष्टप्रतिपत्तितः दृष्टान्तदूषणामोहोहानि पक्षाप्रसिद्धयः / वाचोयुक्त्युपपत्तिभ्यामत एव विपर्ययः अनभ्युपगमो लोकशास्त्रधर्मविकल्पितः / / सामान्याभ्युपपत्तिभ्यां न समोऽनिष्ठकल्पनात् अन्योऽन्योभयसामान्यसर्वसङ्गविशेषतः / सामान्यघाततः सिद्धशास्त्रं लोकोपपत्तितः / SO // 17 // // 18 // // 19 // // 20 // // 21 // // 22 //