________________ // 22 // // 23 // // 24 // यदा तावद्गर्भे त्वमथ सकलश्रीर्वसुमति . . किमेयायुष्मांस्ते नव शिवमिमां पश्यति महीम् / शतेष्वेकः शूरो यदि भवति कश्चिन्नयपटु स्तथा दीर्घापेक्षी रिपुविजयनिःसाध्वसपरः / / तदेतत्संपूर्ण द्वितयमपि येनाद्यपुरुषे श्रुतं वा दृष्टं वा स वदतु यदि त्वा न वदति अयनविषमा भानोर्दीप्तिर्दिनक्षयपेलवा परिभवसुखं मत्तैर्मत्तैर्घनैश्च विलुप्यते।' सततसकला निर्व्यासङ्गं समाश्रितशीतला. तव नरपते ! दीप्तिः साम्यं तया कथमेष्यति . को नामैष करोति नाशयति वा भाग्येष्वधीनं जगत् स्वातन्त्र्ये कथमीश्वरस्य न वशः स्रष्टुं विशिष्टाः प्रजाः / लब्धं वक्तृयशः सभास्विति चिरं तापोऽद्य तेजस्विना मिच्छामात्रसुखं यथा तव जगत्स्यादीश्वरोऽपीदृशः .. गण्डेष्वेव समाप्यते विवदतां यद्वारणानां मदो / यद्वा भूमिषु यन्मनोरथशतैस्तुष्यन्ति तेजस्विनः / यत्कान्तावदनेषु पत्ररचना सङ्गश्च ते मन्त्रीणां तत्सर्वं द्विषतां मनोऽनुगतया कीर्त्यापराद्धं तव क्रमोपगतमप्यपास्य युगभागधेयं कले रपर्वणि य एष ते कृतयुगावतारः कृतः / भवेदपि महेश्वरस्त्रिभुवनेश्वरो वाच्युतो विधातुरपि नूनमद्य जगदुद्भवे संशयः गुणो नाम द्रव्यं भवति गुणतश्च प्रभवति गुणापेक्षं कर्माप्यनुशयमनारम्भविषमम् / 58 // 25 // // 26 // // 27 //