________________ एकायनशतात्मानमेकं विश्वात्मानममृतं जायमानम् / यस्तं न वेद किंमृचा करिष्यति यस्तं न वेद किमृचा करिष्यति॥ 4 // सर्वद्वारा निभृतमृत्युपाशैः स्वयंप्रभानेकसहस्रपर्वा / यस्यां वेदाः शेरते यज्ञगर्भाः सैषा गुहा गूहते सर्वमेतत् // 5 // भावाभावो नि:स्वतत्त्वो (वितत्त्वो) निरञ्जनो (रञ्जनो) यः प्रकारः / गुणात्मको निर्गुणो निष्प्रभावो विश्वेश्वरः सर्वमयो न सर्वः // 6 // सृष्ट्वा सृष्ट्वा स्वयमेवोपभुङ्क्ते सर्वश्चायं भूतसर्गो यतश्च / न चास्यान्यत्कारणं सर्गसिद्धौ न चात्मानं सृजते नापि चान्यान्॥७॥ निरिन्द्रियश्चक्षुषा वेत्ति शब्दान् श्रोत्रेण रूपं जिघ्रति जिह्वया च। पादैर्ब्रवीति शिरसा याति तिष्ठन् सर्वेण सर्वं कुरुते मन्यते च // 8 // शब्दातीतः कथ्यते वावदूकैर्ज्ञानातीतो ज्ञायते ज्ञानविद्भिः। बन्धातीतो बध्यते क्लेशपाशैर्मोक्षातीतो मुच्यते निर्विकल्पः // 9 // नायं ब्रह्मा न कपर्दी न विष्णुब्रह्मा चायं शंकस्चाच्युतश्च / अस्मिन्मूढाः प्रतिमाः कल्पयन्तो ज्ञातश्चायं न च भूयो नमोस्ति // 10 // आपो वह्निर्मातरिश्वा हुताशः सत्यं मिथ्या वसुधा मेघयानम् / ब्रह्मा कीट; शंकरस्ताक्षकेतुः सर्वः सर्वं सर्वथा सर्वतोऽयम् // 11 // स एवायं निभृता येन सत्त्वाः शश्वदुःखादुःखमेवापि यन्ति / स एवायमृषयो यं विदित्वा व्यतीत्य नाकममृतं स्वादयन्ति // 12 // विद्याविद्ये यत्र नो संभवेते यन्नासन्नं नो दवीयो न गम्यम् / यस्मिन्मृत्युर्नेहते नोतुकामा स सोऽक्षरः परमं ब्रह्मवेद्यम् // 13 // ओतप्रोताः पशवो येन सर्वे ओतः प्रोत: पशुभिश्चैष सर्वैः / सर्वे चेमे पशवस्तस्य होम्यं तेषां चायमीश्वरः संवरेण्यः // 14 // तस्यैवैता रश्मयः कामधेनोर्याः पाप्मानमदुहानाः क्षरन्ति। येनाध्याताः पञ्च जनाः स्वपन्ति (प्रोबुद्धास्ते) स्वं परिवर्तमानाः॥१५॥ 40 xa