________________ कथं नु लोके न समानचक्षुषो यथा न पश्यन्ति वदन्ति तत्तथा / अहो न लोकस्य न चात्मनः क्षमा पुरातनैर्मानहतैरुपेक्षितम् // 14 // वृथा नृपैर्भर्तृमदः समुह्यते धिगस्तु धर्म कलिरेव दीप्यते / यदेतदेवं कृपणं जगच्छ ? रितस्ततोऽनैर्थमुखैविलुप्यते // 15 // यदा न शक्नोति विगृह्य भाषितुं परं च विद्वत्कृतशोभमीक्षितुम् / . अथाप्तसंपादितगौरवो जनः परीक्षकक्षेपमुखो निवर्तते / // 16 // त्वमेव लोकेऽद्य मनुष्य ! पण्डितः खलोऽयमन्यो गुरुवत्सलो जनः / स्मृति लभस्वारम नेति शोभसे दृढश्रुतैरुच्छ्वसितुं न लभ्यते // 17 // परेऽद्य जातस्य किलाद्य युक्तिमत् पुरातनानां किल दोषवद्वचः / किमेव जाल्मः कृत इत्युपेक्षितुं प्रपञ्चनायास्य जनस्य सेत्स्यति // 18 // त्रयः पृथिव्यामविपन्नचेतसो न सन्ति वाक्यार्थपरीक्षणक्षमाः / यदा पुनः स्युर्ब्रहदेतदुच्यते न मामतीत्य त्रितयं भविष्यति // 19 // पुरातनैर्यानि वितर्कगवितैः कृतानि सर्वज्ञयश:पिपासुभिः / घृणा न चेत्स्यान्मयि न व्यपत्रपा तथाहमद्यैव न चेद्धिगस्तु माम्।।२०॥ कृतं च यत्किंचिदपि प्रतर्कतः स्थितं च तेषामिव तं न(न)संशयः / कृतेषु सत्स्वेव हि लोकवत्सलैःकृतानि शास्त्राणि गतानि चोन्नतिम् 21 जघन्यमध्योत्तमबुद्धयो जना महत्त्वमानाभिनिविष्टचेतसः / वृथैव तावद्विवदेयुरुच्छ्रिता दिशन्तु लब्धा यदि कोऽत्र विस्मयः।।२२।। अवश्यमेषां कतमोऽपि सर्वविज्जगद्धितैकान्तविशालशासनः / स एष मृग्यः स्मृतिसूक्ष्मचक्षुषा तमेत्य शेषैः किमनर्थपण्डितैः।। 23 / / यथा ममाप्तस्य विनिश्चितं वचस्तथा परेषामपि तत्र का कथा / परीक्ष्यमेषां त्वनिविष्टचेतसा परीक्ष्यमित्यर्थरुचिर्न वञ्च्यते // 24 // मयेदमभ्यूहितमित्यदोषलं न शास्तुरेतन्मतमित्यपोह्यते। तथापि तच्छिष्यतयैव रम्यते कृतज्ञतैषा जलताल्पसत्त्वता // 25 // 42