________________ // पञ्चमी द्वात्रिंशिका // आराध्यसे त्वं न च नाम वीरः स्तवैः सतां चैष हिताभ्युपायः / त्वन्नामसंकीर्तनपूतयत्नः सद्भिर्गतं मार्गमनुप्रपत्स्ये // 1 // जाने यथास्मद्विधविप्रलापः क्षेपः स्तवो वेति विचारणीयम् / भक्त्या स्वतन्त्रस्तु तथापि विद्वन् ! क्षमावकाशानुपपादयिष्ये // 2 // गम्भीरमम्भोनिधिनाचलैः स्थितं शरद्दिवानिर्मलमिष्टमिन्दुना / भुवा विशालं द्युतिमद्विवस्वता बलप्रकर्षः पवनेन वर्ण्यते // 3 // गुणोपमानं न तवात्र किंचिदमेयमाहात्म्यसमञ्जसं यत् / . समेन हि स्यादुपमाभिधानं न्यूनोऽपि तेनास्ति कुतः समानः // 4 // अमोहयत्तां वसुधावधूं यन्मानानुरोधेन पितुश्चकर्ष / ज्ञानत्रयोन्मीलितसत्पथोऽपि तत्कारणं कौऽच्युत ! मन्तुमीशः // 5 // अनेकजन्मान्तरभग्नमानः स्मरो यशोदाप्रिय ! यत्पुरस्ते / चचार निहीकशरस्तमर्थं त्वमेव विद्यासु नयज्ञ ! कोऽन्यः // 6 // अबुद्धखेदोपनतैरनेकैरसाध्यरागा विषमोपचारैः / नरेश्वरैरात्महितानुरक्तैश्चूडामणिया॑पृतपादरेणुः // 7 // स्वयंप्रभूतैर्निधिभिनिवृत्तैः प्रत्येकमम्भोनिचयप्रसूतैः / आशासनं सर्वजनोपभोग्यैर्धनेश्वरः प्रीतिकरः प्रजानाम् // 8 // दिक्पालभुक्त्या वसुधां नियच्छन् प्रबोधितो नाम सुरैः समायः / लक्ष्म्या निसर्गोचितसंगताया: सितातपत्रप्रणयं व्यनौत्सीत् // 9 // अपूर्वशोकोपनतक्लमानि नेत्रोदकक्लिन्नविशेषकाणि। . विविक्तशोभान्यबलाननानि विलापदाक्षिण्यपरायणानि // 10 // मुग्धोन्मुखाक्षाण्युपदीष्टवाक्यसंदिग्धजल्पानि पुरःसराणि / बालानि मार्गाचरणक्रियाणि प्रलम्बवस्त्रान्तविकर्षणानि // 11 // 30