________________ भयमेव यदा न बुध्यते स कथं नाम भयाद्विमोक्ष्यते। अभये भयशङ्किनः परे यदयं त्वद्गुणभूतिमत्सरः // 9 // बलसाध्यमलं न दुर्बलः प्रतिषेद्धं विनियोक्तुमेव वा। .. नियतेयमृर्व्यवस्थितिस्तव लोकस्य च नात्मवैरिणः / // 10 // यदि येन सुखेन रज्यते कुरुते रक्तमनाश्च यत्स्वयम् / प्रविचिन्त्य जनस्तदाचरेत्प्रतिघातेन रमेत कस्त्वयि // 11 // अविकल्पमन:स्विदं वचस्तव यैरेव मनःसु संभृतम् / समतीतविकल्पगोचराः सुखिनो नाथतयैवं ते जनाः // 12 // परिवृद्धिमुपैति यद्यथा नियतोस्यापचयस्ततोऽन्यथा। तमसा परिचीयते भवस्त्वदनाथेषु कथं न वय॑ति // 13 // यदि नाम जिगीषयापि ते निपतेयुर्वचनेषु वादिनः। चिरसंगतमन्यसंशयं क्षिणुयुर्मानमनर्थसंचयम् // 14 // उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि सर्वदृष्टयः / न च तासु भवानुदीक्ष्यते प्रविभक्तासु सरित्स्विवोदधिः // 15 // वचनैर्विवदन्ति वादिनो भवता नोभयथापि तैर्भवान्। महता विपरीतदर्शनो वितथग्राहहतो विरुध्यते // 16 // स्वयमेव मनुष्यवृत्तयः कथमन्यान् गमयेयुरुन्नतिम् / अनुकूलहतस्तु बालिशः स्खलति त्वय्यसमानचक्षुषि // 17 // अविकल्पसुखं सुखेष्विति ब्रुवते केवलमल्पमेधसः / त्वयि तत्तु यथार्थदर्शनात्सकलं वीर ! यथार्थदर्शनम् // 18 // न महत्यणुता न चाप्यणौ विभुता संभवतीह वादीनाम् / . भवतस्तु तथा च तन्न च प्रतिबोधावहितैर्विनिश्चितम् // 19 // सुखदुःखविवेकसाधनं विहितं तीर्थमिदं जिन ! त्वया। न च सोऽस्त्यपयाति यस्तयोरथवास्य प्रतिषिद्धशासनम् // 20 // 39