________________ // 31 // असारभवबुद्धयस्तु भवरोगशान्तौ परे निदानमिव दृष्टिदोषमवधीरितास्तत्सुतैः अविदितगुण ! स्तोतुं कः स्यात् प्रमेयगुणानपि त्रिभुवनगुरुः किं त्वेवाहं तव स्तवचापलः। नतु (नु) गणयितुं चान्यापातं नयस्व हितैषिणं त्वयि समुदितानन्दं चेतो मयेत्यनुवर्तितुम् // 32 // // 2 // // चतुर्थी द्वात्रिंशिका // परिचिन्त्य जगत्स्तवाश्रया न विरोधस्तिमितेन चेतसा। परुषं प्रतिभाति मे वचस्त्वदृते वीर ! यतोऽयमुद्यमः // 1 // यदिवा कुशलोच्चलं मनो यदि वा दुःखनिपातकातरम् / न भवन्तमतीत्य रंस्यते गुणभक्तो हि न वञ्च्यते जनः कुलिशेन सहस्रलोचनः सविता चांशुसहस्रलोचनः / न विदारयितुं यदीश्वरो जगतस्तद्भवता हतं तमः // 3 // निरवग्रहमुक्तमानसो विषयाशाकलुषस्मृतिर्जनः / त्वयि किं परितोषमेष्यति द्विरदः स्तम्भ इवाचिरग्रहः // 4 // हितयुक्तमनोरथोऽपि संस्त्वयि न प्रीतिमुपैति यत्पुमान् / अतिभूमिविदारका(दा)रुणं तदिदं मानकलेविजृम्भितम् // 5 // भवमूलहरामशक्नुवंस्तव विद्यामधिगन्तुमञ्जसा / भवतेऽयमसूयते जनो भिषजे मूर्ख इवेश्वरातुरः // 6 // न सदःसु वदनशिक्षितो लभते वक्तृविशेषगौरवम् / अनुपास्य गुरुं त्वया पुनर्जगदाचार्यकमेव निजितम् वितथं कृपणः सु(स्व)गौरवाद्वदति स्वं च न तेऽस्ति किंचन / वितथानि सहस्रशश्च ते जगतश्चाप्रतिमोऽसि नायक: // 8 // // 7 // 34