________________ उदाहृतमिदं जिनेन्द्र ! सविपर्ययं यत्त्वया / ह्यनेन भवशासनं तव सृता बुधाः शासनम् . .. // 25 // क्रिया भवति कस्यचिन च विनिष्पतत्याश्रयात् स्वयं च गतिमान् व्रजत्यथ च हेतुमाकाङ्क्षते / गुणोऽपि गुणवच्छितो न च तदन्तरं विद्यते त्वयैष भजनोर्जितः सुगद ! सिंहनादः कृतः - // 26 // न जातु नरकं नरो व्रजति सागसोऽप्यन्तसो(शो) . न चापि नरकादपायमन(त)वेत्य संवेद्यते / / कदाचिदिह वैरमाप्य नरकोपगं मुच्यते न चापि तव वीर ! वाक्यमतिपेशलं दोषलम् // 27 // शयानमतिजागरूकमतिशायिनं जागरं ससंज्ञमपि वीतसंज्ञमथ मोमुहं संज्ञिनम् / / विकत्थनमभाषिणं वचनमूकमाभाषिणं दुरुक्तमिव मन्यते न तव यो मतं मन्यते // 28 // न मोहमतिवृत्य बन्ध उदितस्त्वया कर्मणां न चैकमपि बन्धनं प्रकृतिबन्धभावो महान् / अनादिभवहेतुरेष न च बध्यते नासकृत् त्वयातिकुटिला गतिः कुशल ! कर्मणां दर्शिता // 29 // इहैव परिपाकमेति विहितं परे वा भवो (वे) भवोऽपि न भवेऽस्ति नैव न भवत्यसौ प्रागपि / क्वचिच्च कृतमन्यथा फलति सर्वथैवान्यथा अवन्ध्यमिह चोदितं सुकृतमष्टसंख्यं त्वया / कृपाकृश इवोक्तवान् यदसि वीर ! घोरं तपो .. भवार्तिपरिविक्लवैस्तदतिशान्तये सेव्यसे। - 34 // 30 // // 30 //