________________ // 19 // // 20 // // 21 // यश:सुखपिपासितैरयमसावनोंत्तरैः परैरपशदः कुतोऽपि कथमप्यपाकृष्यते न दुःखसुखकल्पनामलिनमानसः सिध्यति न चागमसदादरो न च पदार्थभक्तीश्वरः / न शून्यघटितस्मृतिर्न शयनोदरस्थो न वा यथात्थ न ततः परं हितपरीक्षकैर्मन्यते त्वमेव परमास्तिकः परमशून्यवादी भवान् . त्वमुज्ज्वलविनिर्णयोऽप्यवचनीयवादः पुनः।। परस्परविरुद्धतत्त्वसमयश्च सुश्लिष्टवाक् त्वमेव भगवन्नकम्प्यसु (मु)नयो यथा कस्तथा न किंचिदुपलक्ष्यते गगनकाष्ठयोरन्तरं न चापि न पृथक् तयोस्तदुपलक्षितं लक्षणम् / न चास्ति नियमो दिशां न च हितोचितैषा स्थिति स्त्वदीयमिव शासनं सुनयनिष्प्रकम्पाः स्थिताः व्ययोऽपि पुनरुद्भवे भवति कर्मणां कारणं कारणं व्ययोऽपि च परं ललाम भवनिर्जराबोधने / करोति मलमर्जयन्नपि च निष्कृति कर्मणां न वा क्व तव तीर्णसङ्गनिकषे परीक्षा क्षमा न कर्म फलगौरवाद् व्रजति नाप्यकर्मा क्वचिन् न चापि मरणादपेत्य न च सर्वथैवामृतः / न चेन्द्रियगणं विहाय न तनुं न चैवान्यथा मतं तव निरञ्जनं विशति भव्यधीरञ्जनम् चराचरविशेषितं जगदनेकदुःखान्तिकम् अनादिभवहेतुगूढदृढशृङ्खलाबन्धनम् / // 22 // // 23 // // 24 // 33