________________ // 7 // // 8 // // 9 // जनानुमुखचाटवस्तरुणसत्कृतप्रातिभाः प्रवृत्तिपरमार्थमेव परमार्थमाहुः परे क्वचिन्नियतिपक्षपातगुरु गम्यते ते वचः स्वभावनियताः प्रजाः समयतन्त्रवृत्ताः क्वचित् / स्वयं कृतभुजः क्वचित् परकृतोपभोगाः पुन न वा विशदवाददोषमलिनोऽस्यहो विस्मयः परस्परविलक्षणाश्च न च नामरूपादयः क्रियापि च न तानतीत्य न च ते क्रियैकान्ततः / निरोधगतयस्त एव न च विक्रियानिश्चया निमीलितविलोचनं जगदिदं त्वयोन्मीलितम् न कश्चिदपि जायते न च परत्वमापद्यते प्रतिक्षणनिरोधजन्मनियताश्च सर्वाः प्रजाः / / य एव च समुद्भवः सविलयः प्रतिस्वं च तौ तदा परमिदं मनःस्वनलसैनिखातं वचः पृथङ् न भवहेतुरस्ति न च भोक्तुरन्यो भवः प्रसूतिरपि जायमानमति(पि)नास्ति नान्या न च / स्थितिर्गमनमुन्नतिर्व्यसनमिष्टयो बुद्धयस्- . तथेत्यनवबद्धपूर्वमपरैः प्रबद्धं त्वया / स्वभावनियतस्त्वया जिन न कश्चिदात्मोदितस्' त्वमेवच परं ललामपरमार्थतत्त्वार्थिनाम् / असंभवमनाशमेकममितक्षयस्थानिनं यथैनमवदत्तथैव परमात्मताऽस्यात्मनः पृथङ् न चयनादयो न च परस्परैकात्मका(ता)न बुद्धिरपि तामतीत्य न च तद्गता बुद्धयः / // 10 // // 11 // // 12 // 31