SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ चित्रं किमत्र यदि निर्वचनं विवादा न प्राप्नुवन्ति ननु शास्तरि युक्तमेतत् / उक्तं च नाम भवता बहुनैकमार्ग . निर्विग्रहं च किमतः परमद्भुतं स्यात् // 8 // मां प्रत्यसौ न मनुजप्रकृतिजिनोऽभूत् शङ्के च नातिगुणदोषविनिश्चयज्ञः यत्त्वां जिन ! त्रिभुवनातिशयं समीक्ष्य नोन्मादमाप न भवज्वरमुन्ममाथ 9 अन्येऽपि मोहविजयाय निपीड्यकक्षा मभ्युत्थितास्त्वयि विरूढसमानमानाः / अप्राप्य ते तव गतिं कृपणावसाना स्त्वामेव वीर ! शरणं ययुरुद्वहन्तः // 10 // तावद्वितर्करचनापटुभिर्वचोभि र्मेधाविनःकृतमिति स्मयमुद्वहन्ति। यावन्न ते जिन ! वचःस्वभिचापलास्ते सिंहानने हरिणबालकवत् स्खलन्ति // 11 // त्वद्भाषितान्यविनयस्मितकुञ्चिताक्षाः स्वग्राहरक्तमनसः परिभूय बालाः / नैवोद्भवन्ति तमसः स्मरणीयसौख्या: पाताललोनशिखरा इव लोध्रवृक्षाः 12 सद्धर्मबीजवपनानघकौशलस्य यल्लोकबान्धव! तवापि खिलान्यभूवन् / तन्नाद्भुतं खगकुलेष्विह तामसेषु सूर्यांशवो मधुकरीचरणावदाताः॥ 13 // त्वच्छासनाधिगममूढदिशां नराणामाशास्महे पुरुषमप्यनुपत्तमेव / उन्मार्गयायिषु हि शीघ्रगतिर्य एव नश्यत्यसौ लघुतरं न मृदुप्रयातः॥१४॥ तिष्ठन्तु तावदतिसूक्ष्मगभीरगाधाः संसारसंस्थितिभिदः श्रुतवाक्यमुद्राः / पर्याप्तमेकमुपपत्तिसचेतनस्य रागार्चिषः शमयितुं तव रूपमेव॥ 15 // वैराग्यकाहलमुखा विषयस्पृहान्धा ज्ञातुं स्वमप्यन(नु)धिया हृदयप्रचारम् / नातः परं भव इति व्यसनोपकण्ठ विश्वासयन्त्युपनतांस्त्वयि मूढसंज्ञाः // 16 20
SR No.004466
Book TitleShastra Sandesh Mala Part 16
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy