________________ विलक्षणानामविलक्षणा सती त्वदीयमाहात्म्यविशेषसंभली। मनांसि वाचामपि मोहपिच्छलान्युपेत्य तेऽत्यद्भुत भाति भारती।। 19 // असत्सदेवेति परस्परद्विषः प्रवादिनः कारणकार्यतर्किणः। तुदन्ति यान् वाग्विषकण्टकान तैर्भवाननेकान्तशिवोक्तिरर्यत // 20 // निसर्गनित्यक्षणिकार्थवादिनः तथा महत्सूक्ष्मशरीरदर्शिनः। यथा न सम्यङ्मतयस्तथा मुने ! भवाननेकान्तविनीतमुक्तवान्।। 21 // मुखं जगद्धर्मविविक्ततां परे वदन्ति तेष्वेव च यान्ति गौरवम् / त्वया तु येनैव मुखेन भाषितं तथैव ते वीर ! गतं सुतैरपि // 22 // तपोभिरेकान्तशरीरपीडनैव्रतानुबन्धैः श्रुतसंपदापि वा। त्वदीयवाक्यप्रतिबोधपेलवैरवाप्यते नैव शिवं चिरादपि // 23 // न रागनिर्भर्त्सनयन्त्रमीदृशं त्वदन्यदृग्भिश्चलितं विगाहितम्। यथेयमन्तःकरणोपयुक्तता बहिश्च चित्रं कलिलासनं तपः // 24 // विरागहेतुप्रभवं न चेत्सुखं न नाम तत्किंचिदिति स्थिता वयम् / स चेनिमित्तं स्फुटमेव नास्ति न त्वदन्यतः स त्वयि येन केवलः।।२५।। न कर्म कर्तारमतीत्य वर्तते य एव कर्ता स फलान्युपाश्नुते / तदष्टधा पुद्गलमूर्तिकर्मजं यथात्थ नैवं भुवि कश्चनापरः // 26 // न मानसं कर्म न देहवाङ्मयं शुभाशुभज्येष्ठफलं विभागशः / यदात्थ तेनैव समीक्ष्यकारिणः शरण्य ! सन्तस्त्वयि नाथबुद्धयः॥२७॥ यदा न कोपादिवियुक्तलक्षणं न चापि कोपादिसमस्तलक्षणम् / त्वमात्थ सत्त्वं परिणामलक्षणं तदेव ते वीर ! विबुद्धलक्षणम्॥ 28 // क्रियां च संज्ञानवियोगनिष्फलां क्रियाविहीनां च विबोधसंपदम् / निरस्यता क्लेशसमूहशान्तये त्वया शिवायालिखितेव पद्धतिः // 29 // सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तसंपदः / तवैव ताः पूर्वमहार्णवोत्थिता जगत्प्रमाणं जिन ! वाक्यविपुषः॥ 30 // 25