________________ कृपां वहन्तः कृपणेषु जन्तुषु स्वमांसदानेष्वपि मुक्तचेतसः / त्वदीयमप्राप्य कृतार्थकौशलं स्वतः कृपां संजनयन्त्यमेधसः // 7 // जनोऽयमन्यः करुणात्मकैरपि स्वनिष्ठितक्लेशविनाशकाहलैः। विकुत्सयंस्त्वद्वचनामृतौषधं न शान्तिमाप्नोति भवार्तिविक्लवः॥ 8 // प्रपञ्चितक्षुल्लकतर्कशासनैः परप्रणेयाल्पमतिर्भवासनैः / त्वदीयसन्मार्गविलोमचेष्टितः कथं नु न स्यात्सुचिरं जनोऽजनः॥ 9 // परस्परं क्षुद्रजनः प्रतीपगानिहैव दण्डेन युनक्ति वा न वा। निरागसस्त्वत्प्रति कूलवादिनो दहन्त्यमुत्रेहं च जाल्मवादिनः // 10 // अविद्यया चेद्युगपद्विलक्षणं क्षणादि कृत्स्नं न विलोक्यते जगत् / ध्रुवं भवद्वाक्यविलोमदुर्नयांश्चिरानुगांस्तानुपगूह्य शेरते // 11 // समृद्धपत्रा अपि सच्छिखण्डिनों यथा न गच्छन्ति गतं गरुत्मतः / सुनिश्चितज्ञेयविनिश्चयास्तथा न ते मतं यातुमलं प्रवादिनः // 12 / / य एष षड्जीवनिकायविस्तरः परैरनालीढपथस्त्वयोदितः / अनेन सर्वज्ञपरीक्षणक्षमास्त्वयि प्रसादोदयसोत्सवाः स्थिताः // 13 // वपुः स्वभावस्थमरक्तशोणितं परानुकम्पासफलं च भाषितम् / न यस्य सर्वज्ञविनिश्चयस्त्वयि द्वयं करोत्येतदसौ न मानुषः // 14 // अलब्धनिष्ठाः प्रसमिद्धचेतसस्तव प्रशिष्याः प्रथयन्ति यद्यशः / न तावदप्येकसमूहसंहताः प्रकाशयेयुः परवादिपार्थिवाः // 15 / / यदा न संसारविकारसंस्थितिविगाह्यते त्वत्प्रतिघातनोन्मुखैः। शठैस्तदा सज्जनवल्लभोत्सवो न किंचिदस्तीत्यभयैः प्रबोधितः।। 16 // स्वपक्ष एव प्रतिबद्धमत्सरा यथान्यशिष्याः स्वरुचिप्रलापिनः / निरुक्तसूत्रस्य यथार्थवादिनो न तत्तथा यत्तव कोऽत्र विस्मयः॥ 17 // नयप्रसङ्गापरिमेयविस्तरैरनेकभङ्गाभिगमार्थपेशलैः / / अकृत्रिमस्वादुपदैर्जनं जनं जिनेन्द्र ! साक्षादिव पासिं भाषितैः।। 18 / / 24