________________ तच्छिष्यो गुरुकीर्तिकीर्तिविमलो बुद्धो गुरुस्तच्छिशुः सूरिः श्री विबुधाभिधानविमलो ग्रन्थं व्यधत्तामुकम् // 175 // नोरङ्गंबादपुर्यां प्रथितजिनगृहश्राद्धवर्गान्वितायामाचार्यो यौवराय॑सविमलमहिमा सूरिनाम्ना प्रसिद्धः / नीत्याद्यैः सारशिष्यैः शुभपरिकरितो ग्रन्थरूपं त्वकार्षीद्भव्यानां धर्महेतोः.स विबुधविमलः शुद्धसम्यक्यपरीक्षाम् / / 176 // यत्राराध्या जैन्यः, प्रतिमाः सम्यग्दृष्टिभिः श्राद्धैः / / ग्रन्थो विबुधविमलगणिकृतः स सम्यक्परीक्षेति . // 177 // शाके नन्दवाधिरसचन्द्रमिते संवत्सरे ज्येष्ठमासि वह्निविधुपर्वतचन्द्रमिते विक्रमसंवत्सरे शुभे / शुक्लपक्षे त्रयोदश्यां, समाप्तोऽयं हि ग्रन्थकः / भानुविमलसाध्वर्थं, भविनां सुखकारकः // 178 // यत्किञ्चित्सिद्धान्ताद्विरुद्धं लिखितमनुपयोगेन / तच्छोध्यं विद्वद्भिर्मिथ्या तदुष्कृतं मेऽस्तु // 179 // ग्रन्थः सिद्धान्तयुक्तार्थो, वादिवादसमन्वितः / चिरं जीयाज्जगत्यां हि, यावच्चन्द्रदिवाकरौ / // 180 // ઉજન