________________ // 108 // // 109 // :: // 110 // // 111 // // 112 // एवं चेत्तर्हि सिद्धान्ते, श्रावकाणां निरूपितम् / पूजैवोपासकादौ तत्कारणं निवृतेस्तथा पूजायाः सिद्धिलाभश्चेच्चारित्रं तर्हि निष्फलम् / प्रध्वरेणाध्वना कश्चित्, प्राप्नुयानगरं तु यः वक्रेण नैव मार्गेण, गच्छति स कदाचन / . एवं चेत्पूजया सिद्भिश्चारित्रं निष्प्रयोजनम् लोचादिकष्टसाध्यं स्याच्चारित्रं निष्परिग्रहम् / गृह्णाति न कदा कश्चित्, पूजा तु सुखसाधनम् .. वादिवच इति श्रुत्वा, सिद्धान्तिकः प्रभाषते / अहो बुद्धिस्त्वदीयात्र, चातुरिका च वर्ण्यते स्थानाङ्गे द्विविधो धर्मोऽगारानगारभेदतः / अगारो द्विविधः प्रोक्तः, सम्यक्त्वदेशभेदतः यद्यनगारधर्मस्तु, स्यात् संपूर्णदयामयः / मोक्षाङ्गं तर्हि सर्वोऽपि श्राद्धधर्मो निरर्थकः साधुभ्यः शुद्धदानेन, स्यान्महानिर्जरा यदि / भगवतीवचः श्रुत्वा, कश्चिद् ब्रूयाद् व्रतेन किम् ? एवं सिद्धान्तसामर्थ्याद्वादी निरुत्तरीकृतः / पुनबूते प्रवादेन, सेयं सन्मुखभाषया एकैव भो दया यत्र, धर्मस्तत्रैव भाषितः / श्रावकस्यापि साधोश्चान्यत्तु सर्वं निरर्थकम् पापस्थानानि सन्त्येवाष्टादश दुःखदान्यपि / तेषां न भावतो धर्मो, जिनेश्वरैः प्रभाषितः पापस्थानानि वर्तन्ते, सप्तदश पराण्यपि / तेषामभावतो धर्मः, किं न स्यात्त्वन्मते वद / -- // 113 // // 114 // // 115 // // 116 // // 117 // // 118 // // 119 // 320