________________ // 77 // त्यागोऽनुबन्धहिंसाया, भक्तादिके च दृश्यते / हेतुस्वरूपतो हिंसा, ततोऽत्यन्तलघीयसी // 72 // प्रोक्तानुबन्धहिंसाया, हेतुहिंसा लघीयसी / तस्याः स्वरूपहिंसापि लघीयसीतरा तथा // 73 // उपदेशो न हिंसाया, द्रव्यस्तवेऽर्हतां पुनः / श्राद्धानामनुबन्धाच्च, हिंसात्यागस्तु पूजने // 74 // परिग्रहमहारम्भत्यागो द्रव्यस्तवे भवेत् / श्रमणोपासकानां च, जिनप्रासादसर्जने // 75 // यत्साधर्मिकवात्सल्यं, तीर्थयात्राव्रतोत्सवः / उद्यापनादिकं ज्ञेयं, सर्वं युक्तं जिनागमे // 76 // कृष्णश्रेणिकमुख्यानां, ज्ञान्यादिबहुभक्तितः / ज्ञानाधाराधना जाता, ज्ञातादिसूत्रतः श्रुताः / अर्थात्कामाच्च धर्माच्च, ये घ्नन्ति मन्दबुद्धिकाः / . प्रश्नव्याकरणे यत्स्यात्, तत्तु मिथ्यात्वसङ्गमात् / अन्यथा किमु साधूनां, वैयावृत्त्यादि कल्पते / प्रतिक्रमणमत्र स्याच्चेन्मिथ्यात्वं कथं गतम् ? // 79 // यत्र चेत्प्राणिनां घातस्तत्र मिथ्यात्वमुच्यते / भोश्चित्ते तु तथैवं (तवैवं) स्यात्, सम्यक्त्वं कस्य कथ्यते ? / / 80 / / धर्मार्थं प्राणिनां घातो, मिथ्यात्वं तत्र मन्यते / / विहारादौ मुनीनां चेन्मिथ्यात्वं किं न कथ्यते ? // 81 // चेत्प्रतिकान्तितो नैव, मिथ्यात्वं प्रतिपाद्यते / प्रायश्चित्तं श्रुतेः प्रोक्तं, दशधालोचनादिकम् // 82 // मिथ्यात्वप्रतिपत्तौ च, महाव्रतविघातने / . यदीर्यायाः प्रतिक्रान्तौ, शुद्धिर्भवति निर्मला // 83 // .. 317 // 78 //