________________ // 60 ... // 61 // // 62 // // 64 // शास्त्रे हिंसा विधोक्तानुबन्धहेतुस्वरूपतः / जिनाज्ञाभङ्गमिथ्यात्वाद्धिसा स्यात्सानुबन्धिका अयतनाप्रवृत्तेश्च, हेतुहिंसा प्रकीर्तिता / यतनां कुर्वतां पुंसां, हिंसा स्वरूपतो मता हिंसैव सर्वतो दुष्टा, यद्यपि प्रतिपादिता / यदुत्सर्गापवादाभ्यां वर्जनीया तथापि च कष्टसाध्यः खलुत्सर्गः, सुखसाध्यापवादता / सिद्धान्तवृत्तिकायां च, तयोर्लक्षणमीरितम् ज्ञानदर्शनचारित्राण्येव मोक्षस्य मार्गता / जघन्यमध्यमोत्कृष्टादाराध्या पञ्चमाङ्गके उत्कृष्टाराधनोत्सर्गाज्जघन्या चापवादतः / मध्योत्सर्गापवादाभ्यां, भगवत्यङ्गनिश्चिता ज्ञानादीनां तु मार्गाणामेकैकाराधना त्रिधा / जघन्यमध्यमोत्कृष्टा, सङ्ख्यासङ्ख्यातभेदिका जघन्याराधनाया हि, स्थानान्यप्रमितानि च / एवं ज्ञेयानि सर्वत्र, मध्यमोत्कृष्टयोरपि सम्यग्दृष्टिगुणस्थाने, देशव्रतगुणे तथा / ज्ञानाद्याराधना प्रोक्ता, जघन्यादिकभेदतः चतुर्थे तु गुणस्थाने, व्रताभावो विशेषतः / सम्यक्त्वव्रतिभक्त्यैव, ज्ञानाधाराधना मता दीक्षासाहाय्यदानेन, चारित्रादिमहोत्सवात् / चैत्यप्रासादभक्तेश्च, ज्ञानाधाराधना भवेत् एवं देशगुणस्थाने, प्रत्याख्यानाद्विशेषतः / चारित्राराधना प्रोक्ता, भक्तादौ यतना बहुः 316 // 67 // // 68 // // 69 // // 70 // // 71 //