________________ // 48 // // 49 // // 50 // // 51 // / / 52 / / - // 53 // नैकार्थनाममालायां, त्रयोऽर्थाः प्रतिपादिताः / ज्ञानार्थश्चैत्यशब्दश्च, वनवाची तिरस्कृतः स्थानाङ्गे दशधा सत्यं, जनपदादिवाक्यतः / संमतं सत्यभेदेन, चैत्यस्यास्त्रियः स्मृताः व्युत्पत्त्या न हि सर्वेऽपि, शब्दाः सर्वत्र सङ्गताः / गोशब्दो यदि गत्यर्थः, कीटिकादौ न किं मतः ! कदाग्रहवशेनैव, मूर्खण केनचिन्मुधा / व्याकरणादिसूत्रेण, ज्ञानार्थको हि साधितः कुत्रचिन्नाममालायां, ज्ञानार्थको न भाषितः / ज्ञेयोऽर्हत्प्रतिमावाची, चैत्यशब्दो बहुस्थले आनन्दकामदेवादिश्राद्धसम्यक्त्वसूत्रके / तीर्थकृत्प्रतिमावाची, चैत्यशब्दस्तु निश्चितः . सूर्याभादिकदेवानां, सम्यग्दृशां सुसूरिभिः / आगमेषूदितं चैत्यार्चनं हितादिकारप्पम् परीक्षा छेदतुल्येति, द्वितीया चैत्यहेमसु / . सिद्धान्ताक्षरटङ्गैस्तु, सुधीभिर्विहिता भृशम् परीक्षैव तृतीयाथ, प्रारभ्यतेऽग्नितापवत् / श्रमणोपासकानां नो, हिंसा द्रव्यस्तवेऽर्हताम् श्रमणोपासकानां हि, द्रव्यस्तवस्तु मुख्यतः / . . महानिशीथसूत्रोक्तो, भावस्तवोऽपि संमतः रुद्रध्यानप्रमादेन, कृष्णलेश्यादियोगतः / प्राणानां व्यपरोपत्वं, हिंसा पञ्चेन्द्रियस्य हि प्राणिनां द्वीन्द्रियादीनां, महारम्भः प्रभाषितः / . आरम्भो भूतसत्त्वानां, व्यवहाराद्विवक्षितः // 54 // // 55 // // 56 // // 57 // // 58 // // 59 // 315