________________ जैनचैत्यानि निर्ग्रन्थाः, सामायिकागमादयः / एषु निःशङ्किताचारा अष्टौ सम्यक्त्वसाधनम् // 24 // निःशङ्कितं भवेदाद्यो, निष्काङ्कितं द्वितीयकः / दर्शनस्य किलाचारस्तृतीयो निश्चिकित्सितम् // 25 // चतुर्थोऽमूढदृष्टित्वं, गुणिप्रशंसनं वरम् / यत्स्थिरीकरणं षष्ठो, वात्सल्यं भक्तिरूपता // 26 // सप्तमस्त्वयमाचारोऽष्टमः प्रभावनामयः / आचाराः कथिता अष्टौ, सम्यक्त्वस्यैव निर्मला: // 27 // श्राद्धानां जिनपूजायां, सामायिके च पौषधे / योजनीया यथायोगमाचाराः सकला अपि // 28 // श्राद्धानां प्रथमं पूजा, द्रव्यभावस्तवात्मिका / परिग्रहातिरौद्राधिबाह्याभ्यन्तररोगहत् // 29 / / भेषजमिव संदिष्टा, विधिवत्परमेश्वरैः / प्राक् पौषधोपवासादेराभरणोपमात्पुनः // 30 // सत्सम्यक्त्वपरीक्षायाः, श्रीविबुधविमलसूरिकृता(क्लृप्ता)याः / समाप्तिमगमत्तृतीयोऽयमधिकारो मिथ्यात्वभित् // 31 // नत्वा चैत्यानि जैनानि, स्मृत्वा गुरुक्रमाम्बुजम् / सम्यक्त्वसाधनं मुख्यमर्हच्चैत्यार्चनं त्रिधा // 32 // चतुर्थोऽथाधिकारोऽयं, सम्यक्त्वस्थैर्यकारणम् / / प्रारभ्यते प्रमोदेन, भव्यानां सुखहेतवे . हुण्डावसर्पिणीकाल आगतो भस्मयोगतः / भस्मग्रहविकारेणोत्थितं शासनपीडनम् // 34 // परमिन्द्रादिभावेन, प्रभुवचःप्रभावतः / अभूत्तत्कारिणां पीडा, तद् दुःखं कृपया महत् // 35 // .. 313. .