________________ नयप्रमाणसापेक्षं, स्याद्वादादिसुनिश्चितम् / / शङ्काकाङ्क्षाचिकित्सान्यशंसासंस्तववर्जितम् // 12 // आत्मा नित्यो हि कर्ता च, भोक्ता स्वकृतकर्मणाम् / / मुक्तिस्तत्साधनं चैव, स्थानानि षट् मतान्यपि ... // 13 // इति सम्यक्त्वरूपोऽयमधिकारः समाप्तिताम् / अगमत्तु द्वितीयोऽथ, मिथ्यामतिविभेदकः / // 14 // अथ नयप्रमाणाख्यः, प्रारभ्यते तृतीयकः / सत्सम्यकत्वपरीक्षायां, भव्यजीवोपकारकः // 15 // नैगमसंग्रहौ ज्ञेयौ, व्यवहारर्जुसूत्रकौ / शब्दसमभिरूढैवंभूताः सप्त नयाः स्मृताः // 16 // प्रत्यक्षं च परोक्षं च , प्रमाणं द्विविधं भवेत् / सांव्यवहारिकं चाद्यं, स्यादसांव्यवहारिकम् // 17 // इन्द्रियजं मतं पूर्वमिन्द्रियातीतजं परम् / मतिः श्रुतं परोक्षं च, प्रत्यक्षं देशसर्वतः // 18 // अवधिज्ञानसंयुक्तं, मनःपर्यायमेव च / / देशप्रत्यक्षमाख्येयं, केवलं सर्वतो मतम् // 19 // पदार्थोऽनन्तधर्मात्मा, युगपत्नैव भाष्यते / स्यादित्यपेक्षया धर्मः, स्याद्वादः स उदाहृतः // 20 // यः पुरुषःपिता सूनुः, पुनः स एव कथ्यते / भागिनेयो भवेद्यस्तु, मातुलोऽपि स एव हि // 21 // एकान्तेन प्रभुः कोऽपि, कञ्चिद्धर्म न भाषितुम् / . अपेक्षाकथनात्प्राज्ञैः, स्याद्वादस्तु समर्थितः // 22 // स्याद्वादो यत्र तत्र स्यात् सम्यक्त्वं प्रतिपादितम् / एकान्तेनैव मिथ्यात्वं, प्रोक्तं सूत्रकृदागमे / // 23 // 310