________________ or // 2 // // 3 // // 4 // श्री विबुधविमलसूरिकृता // सम्यक्त्वपरीक्षा // प्रणम्य परया भक्तया, श्रीमत्पार्श्वजिनेश्वरम् / नत्वा गुरुक्रमाम्भोजं, सम्यक्त्वादि परीक्ष्यते यद्यपि बहवो ग्रन्थाः, पूर्वाचार्यैः सुवर्णिताः / तथापि क्रियते ग्रन्थो, बालानां सुखहेतवे यथाप्रवृत्तिनिष्ठानां, भव्यानां शुक्लपक्षिणाम् / रागद्वेषघनग्रन्थिभेदिनां शुभभावतः मिथ्यात्वस्य परित्यागात् सम्यक्त्वं क्षायिकादिकम् / उत्पद्यते च संसारसमुद्रपारदायकम् धर्मः श्रुतमयो ज्ञेयो, मार्गो ज्ञानादिकः पुनः / समाचारीस्थितः साधुर्जीवश्च प्राणधारकः . मुक्तो मुक्तौ गतो रागद्वेषौ त्यक्त्वैव केवली / एतेषु खलु पञ्चस्वधर्मसंज्ञा विधीयते मिथ्याशास्त्रादिमिथ्यात्वहिंसादौ धर्मतः पुनः / मिथ्यात्वं दशधा प्रोक्तं, स्थानाङ्गे हि सविस्तरम् इति मिथ्यात्वभेदाख्योऽधिकारः प्रथमो गतः / . विबुधाचार्यवर्योक्तः, सिद्धान्ताक्षरसंमतः अथ सम्यक्त्वभेदाख्योऽधिकारो हि द्वितीयकः / / प्रारभ्यते समासेन, दर्शनशुद्धिकारकः तदितरत्तु सम्यक्त्वमुपशमादिकं पुनः / क्षयोपशमवैचित्र्याद्बहुविधं जिनागमे एतादृशं तु सम्यक्त्वं, धार्य निर्मलबुद्धिभिः / शमसंवेगनिर्वेदानुकम्पास्थासुलक्षितम् 311 // 6 // 0 // 7 // // 8 // (समतः // 9 // // 10 // // 11 //