________________ // 33 // // 34 // // 35 // // 36 // // 37 // // 38 // अपकृष्यते श्रिया स्त्री पुंसः सर्वत्र किं न तन्मुक्तौ / इत्यमुनाऽक्षेप्य स्त्रीपुंसाः सिद्धाः सममरुक्त्वम् . मायादिः पुरुषाणामपि द्रेशादिप्रसिद्ध्यभावश्च / षण्णां संस्थानानां तुल्यो वर्णत्रयस्यापि स्त्री नाम मन्दसत्त्वा मुक्त्यङ्गसमग्रता न तेनात्र / तत् कथमनल्पधृतयः सन्ति हि शीलाम्बुनिधिवेला: ब्राह्मी सुन्दर्यार्या राजिमती चन्दना गणधरान्या[:] / अपि देवासुरमहिता विख्याताः शीलसत्त्वाभ्याम् गार्हस्थ्येऽपि सुसत्त्वा विख्याताः शीलवतितमा जगति / सीतादयः कथं तास्तपसि विसत्त्वा विशीलाश्च सन्त्यज्य राज्यलक्ष्मी पत्ति-पुत्र-भ्रातृ-बन्धुसम्बन्धम् / पारिवाज्यवहायाः किमसत्त्वं सत्यभामादेः महता पापेन स्त्री मिथ्यात्वसहायकेन न सुदृष्टिः / स्त्रीत्वं चिनोति, तन्न तदङ्गे क्षपणेति निर्मानम् अन्तःकोटीकोटीस्थितिकानि भवन्ति सर्वकर्माणि / सम्यक्त्वलाभ एवाशेषाघक्षयकरो मार्गः अष्टशतमेकसभये पुरुषाणामादिरागमः सिद्धौ / स्त्रीणां न मुख्ययोगे गौणोऽर्थो मुख्यहानिर्वा शब्दनिवेशनमर्थः प्रत्यासत्त्या क्वचित् कयाचित्सः / ' तदयोगे योगे सति शब्दस्यान्यः कथं कल्प्य: अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च / विपरीतो गौणोऽर्थः, सति मुख्ये धीः कथं गौणे स्तनजघनादिव्यङ्ग्ये स्त्रीशब्दोऽर्थे न तं विहायैषः / दृष्टः क्वचिदन्यत्र त्वग्निर्माणवकवद् गौणः 300 // 39 // // 40 // // 41 // // 42 // // 43 // // 44 //