________________ // 9 // // 10 // // 11 // // 12 // // 13 // // 14 // 'स्त्री'ति च धर्मविरोधे प्रव्रज्यादोषविंशतौ 'स्त्री'ति / बालादिवद् वदेयुर्न 'गर्भिणी बालवत्से' ति . यदि वस्त्रादविमुक्तिः, त्यज्येत तदथ न कल्पते हातुम् / मुक्त्यङ्गं प्रतिलेखनवदन्यथा देशको दुष्येत् त्यागे सर्वत्यागो ग्रहणेऽल्पो दोष इत्युपादेशि / वस्त्रं गुरुणाऽऽर्याणां परिग्रहोऽपीति भुक्त्यादौ यत् संयमोपकाराय वर्तते प्रोक्तमेतदुपकरणम् / धर्मस्य हि तत् साधनमतोऽन्यदधिकरणमाहाऽर्हन् अस्तैन्यबाहिरव्युत्सर्गविवेकैषणादिसमितीनाम् / उपदेशनमुपदेशो ह्युपधेरपरिग्रहत्वस्य .. निर्ग्रन्था(न्थी)व्यपदेशः शास्त्रे सर्वत्र नैव युज्येत / उपधेर्ग्रन्थत्वेऽस्याः पुमानपि तथा न निर्ग्रन्थः अपरिग्रह एव भवेद् वस्त्राभरणाद्यलङ्कृतोऽपि पुमान् / ममकारविरहितः, सति ममकारे सङ्गवान् नग्नः . आचार्याद्यासक्तं स्वयमादित नो मुमुक्षुका लोभात् / उपसर्गाद्यासक्तमिवाम्बरमपरिग्रहस्तस्याः काये ममकारेऽपि च सपरिग्रह एव नैवमुक्तः स्यात् / तत्र यथा संलग्ने नो ममकारस्तथा वस्त्रे ग्रामं गेहं च विशन् कर्म च नोकर्म चाददानोऽपि / अपरिग्रहोऽममत्वोऽपरिग्रहो नान्यथा कश्चित् संसक्तौ सत्यामपि चोदितयत्नेन परिहरन्त्यार्या / हिंसावती पुमानिव न जन्तुमालाकुले लोके गृहिणो ममत्वयोगात् संयमसाधनगृहीत्यभावाच्च / अयतं चरतश्चरणं न विद्यते तेन नो मोक्षः . 300 // 15 // // 16 // // 17 // // 18 // // 19 // // 20 //