________________ // 4 // श्री शाकटयनाचार्यविरचितम् // केवलिमुक्तिप्रकरणम् // अस्ति च केवलिभुक्तिः समग्रहेतुर्यथा पुरा भुक्तेः / पर्याप्ति-वेद्य-तैजस-दीर्घायुष्कोदयो हेतुः / नष्टानि न कर्माणि क्षुधो निमित्तं विरोधिनो न गुणाः / ज्ञानादयो जिने किं सा संसारस्थिति स्ति // 2 // तम इव भासो वृद्धौ ज्ञानादीनां न तारतम्येन / क्षुद्धीयतेऽत्र न च तज्ज्ञानादीनां विरोधगतिः // 3 // अविकलकारणभावे तदन्यभावे भवेदभावेन / इदमस्य विरोधीति ज्ञानं न तदस्ति केवलिनि क्षुद् दुःखमनन्तसुखं विरोधी तस्येति चेत् कुतस्त्यं तत् / ज्ञानादिवन्न तज्जं विरोधि न परं ततो दृष्टम् // 5 // आहारविषयकाङ्क्षारूपा क्षुद् भवति भगवति विमोहे / कथमन्यरूपतास्या न लक्ष्यते येन जायेत . न क्षुद् विमोहपाको यत् प्रतिसङ्ख्यानभावननिवर्त्या / न भवति विमोहपाकः सर्वोऽपि हि तेन विनिवर्त्यः शीतोष्णबाधतुल्या क्षुत् तत् तत्प्रतिविधानकाङ्क्षा तु / मूढस्य भवति मोहात् तया भृशं बाध्यमानस्य // 8 // तैजसमृदूकृतस्य द्रव्यस्याभ्यवहृतस्य पर्याप्त्या / . उत्तरपरिणामे क्षुत् क्रमेण भगवति च तत् सर्वम् ज्ञानावरणीयादेर्शानावरणादि कर्मणः कार्यम् / क्षुत् तद्विलक्षणाऽस्यां न तस्य सहकारिभावोऽपि // 10 // क्षुद्बाधिते न जाने, न चेक्ष इत्यस्ति ननु विपर्यासः / तद्वेद्यं सहकारि तु तस्य, न तद् वेद्यसहकारि // 11 // // 7 // // 9 // '303