________________ // 46 // // 47 // 1148 // . // 49 // विनाप्यन्वयमात्मादौ प्राणादिः साधनं यदा। तदा स्यानान्वयापेक्षा हेतोः साध्यस्य साधने संबन्धिभ्यां विभिन्नश्चेत् संबन्धः स्यान्न लोष्टवत् / अनवस्था प्रसज्येत तदन्यपरिकल्पने कृत्तिकोदयपूरादेः कालादिपरिकल्पनात् / यदि स्यात् पक्षधर्मत्वं चाक्षुषत्वं न किं ध्वनौ समानपरिणामस्य द्वथस्य नियमग्रहे। .. नाशक्तिर्न च वैफल्यं साधनस्य प्रसज्यते इष्टं साधयितुं शक्यं वादिना साध्यमन्यथा / साध्याभासमशक्यत्वात् साधनागोचरत्वतः यथा सर्वगमध्यक्षं बहिरन्तरनात्मकम्। नित्यमेकान्ततः सत्त्वात् धर्मः प्रेत्यासुखप्रदः रूपाद्यसिद्धितोऽसिद्धो विरुद्धोऽनुपपत्तिमान् / साध्याभावं विना हेतुः व्यभिचारी विपक्षगः असिद्धः सिद्धसेनस्य विरुद्धो मल्लवादिनः / द्वेधा समन्तभद्रस्य हेतुरेकान्तसाधने * // 50 // // 51 // // 52 // // 53 // 4. आगमपरिच्छेदः / ताप-च्छेद-कषैः शुद्धं वचनं त्वागमं विदुः / तापो ह्याप्तप्रणीतत्वमाप्तो रागादिसंक्षयात् // 54 // कषः पूर्वापराघातश्छेदो मानसमन्वयः 22