________________ // 35 // घटमौलिसुवर्णेषु बुद्धिर्भेदावभासिनी / संविनिष्ठा हि भावानां स्थितिः काऽत्र विरुद्धता प्रतीतेस्तु फलं नान्यत् प्रमाणं न ततः परम् / अताद्रूप्येऽपि योग्यत्वानियतार्थस्य वेदकम् // 36 // // 37 // // 38 // // 39 // // 40 // 3. अनुमानपरिच्छेदः। पूर्वमेव परोक्षस्य विषयः प्रतिपादितः / प्रमाणफलसद्भावो ज्ञेयः प्रत्यक्षवद् बुधैः परोक्षं द्विविधं प्राहुर्लिङ्ग-शब्दसमुद्भवम् / लैङ्गिकात् प्रत्यभिज्ञादि भिन्नमन्ये प्रचक्षते परोपदेशजं श्रौतं मति शेषं जगुर्जिनाः। परोक्षं प्रत्यभिज्ञादि त्रिधा श्रौतं न युक्तिमत् अन्यथेहादिकं सर्वं श्रौतमेवं प्रसज्यते / यच्चोक्तं नागमापेक्षं मानं तज्जाड्यजृम्भितम् लिङ्गाल्लिङ्गिनि यज् ज्ञानमनुमानं तदेकधा। प्रत्येति हि यथा वादी प्रतिवाद्यपि तत् तथा उपचारेण चेत् तत् स्यांदनवस्था प्रसज्यते / अन्यस्यासाधनादाह लक्षणे हेतु-साध्ययोः अन्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् / नान्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् कार्यकारणसद्भावस्तादात्म्यं चेत् प्रतीयते / प्रत्यक्षपूर्वकात् तर्कात् कथं नानुपपन्नता व्यतिरेकाऽनुपपत्तिश्चेदन्वयनिबन्धनम् / कथं सत्त्वं विना तेन क्षणिकत्वप्रसाधकम् // 41 // // 42 // // 43 // // 44 // // 45 // 21