________________ // 29 // // 30 // // 31 // // 32 // // 33 // // 34 // प्रसिद्धनिह्नवत्वं तद्भवतां भुवि भावि न / न भावि बोटिकत्वं वा, व्यक्तिश्छिनश्रुतेऽस्ति वा भावि वा स्वल्पकालत्वमष्टोच्छ्वासनिषेधिवत् / / ये सप्त स्वल्पकालाः स्युर्दृष्टान्तायापि ते श्रुते / राका भ्रष्टौष्ट्रिक: किञ्चिद्भ्रष्टो द्वौ च कवोष्णको। फलशाकादिकौ चातः, स्वल्पकालस्य सम्भवः कुपक्षाणां स्वशक्त्यापि, व्रतं चारित्रमेव न / नाज्ञानकष्टमेवातः, क्रियेत्यभिहितं बुधैः पार्श्वस्थादेर्दृढा द्रव्य-लिङ्गिनो गृहिलिङ्गिनः / . कुलिङ्गिनश्च ज्ञातृत्वात्, तीव्रमिथ्यात्विनस्त्वमी जैनागमस्याश्रद्धानं, मुख्यमिथ्यात्वमुच्यते / श्रद्धानं गौणमिथ्यात्वं, मिथ्यादृष्टयोर्द्वयोरपि ... स्वकल्पितमतस्थायि, जिनोक्तागमसम्मतेः / श्रद्धानमपि मिथ्यात्वं, गौणं तु देशदूषणात् मुख्यमिथ्यात्वमेष्वल्प-मपि तालपुटं विषम् / असाध्यत्वात्तदुत्तीर्योदधि गोष्पदमज्जनम् अनल्पं मुख्यमिथ्यात्वं, गृहिलिङ्गिकुलिङ्गिनाम् / यद्यपि स्यात् पुनस्साध्यं, वत्सनागविषं यथा मिथ्यात्वबन्धमाश्रित्य, लौकिकेभ्योऽधमा अमी / उत्तमाः पुनराश्रित्य, ग्रन्थिभेदकियाफले क्रियानुरागात् पञ्चैते, श्रिता मध्यमबुद्धिभिः / . गताऽऽगमानुगामित्वाननुगामित्ववीक्षणैः बालः पश्यति लिङ्ग, मध्यमबुद्धिर्विचारयति वृत्तम् / आगमातत्त्वं तुं बुधः, परीक्षते सर्वयत्नेन / 282 // 35 // // 37 // // 38 // // 39 // // 40 //