________________ // 16 // // 17 // // 18 // // 19 // // 20 // // 22 // गुरुतत्त्वविमूढोऽत्र, मुह्यत्यपरतत्त्वयोः / असौ जनस्ततः स्पष्टं, गुरुतत्त्वं प्रदर्श्यते त्याज्य: कुगुरुसंसर्गो, गुरुतत्त्वेक्षणोन्मुखैः / पार्श्वस्थादिर्बहिःस्थश्च, कुगुरुर्दशधा मतः श्रितोऽत्राद्यश्चतुर्भेदः, प्रायः शैथिल्यकारणम् / स्वच्छन्दबाह्यौ स्वाच्छन्द्य-सङ्घबाह्यत्वकारणम् संविग्नपाक्षिकाच्छेषः, शिथिलः स्वं परानपि / यथाच्छन्दो घनं बाह्योऽतिघनं पातयेद् भवे एते स्वकर्मणा बाह्याः, पञ्चोत्सूत्रप्ररूपकाः / अभूवन् दुःषमाकालाद् भ्रमोद्घामितचेतसः अनवस्थितकोत्सूत्रं, यथाच्छन्दत्वमेषु न / तदवस्थितकोत्सूत्रं, निह्नवत्वमुपस्थितम् त्यक्ततीर्था ह्यमी वाऽभि- निवेशानिह्नवास्ततः / / अज्ञानात्क्रमसंसर्ग-भावे तीर्थं त्यजन्ति न अज्ञेऽनभिनिवेशे तु, सयाज्ञा शिष्यधीगुणैः / लौकोत्तराऽऽभिग्रहिक-मिथ्यात्वाद्यन्यथा त्वयि .. वादिनोऽपि मिथो यूयं, कुपक्षास्सङ्घमागताः / / सर्वेप्यन्यायिनस्स्यात, तस्करा इव भूपतिम् मिथो वादाद्. गता युयं, स्वयमेवाप्रमाणताम् / ' कण्टकः कण्टकेनैव, पट्टभक्तः कमोस्त्विह सुत्रोक्ता निह्नवास्सप्त, तदाधिक्यकथा कथम् ? / जमालिनाशमित्यादि-सूत्रतो लभ्यते श्रुते जमालिस्तीर्थकृदूषी, यूयं तीर्थस्य दूषकाः / सामान्यतः पुनस्सूत्रे, यदुक्ता व्यक्तितो न च // 23 // // 24 // // 25 // // 26 // // 27 // // 28 // 281