________________ // 4 // श्रीशान्त्याचार्यविरचितम् ॥न्यायावतारसूत्रवार्तिकम् // ___ 1. सामान्यलक्षणपरिच्छेदः / हिताहितार्थसंप्राप्ति-त्यागयोर्यनिबन्धनम् / तत् प्रमाणं प्रवक्ष्यामि सिद्धसेनार्कसूत्रितम् प्रमाणं स्वपराभासि ज्ञानं बाधविवर्जितम् / प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् // 2 // सन्निकर्षादिकं नैव प्रमाणं तदसंभवात् / अवभासो व्यवसायो न तु ग्रहणमात्रकम् / . // // दीपवनोपपद्येत बाह्यवस्तुप्रकाशकम् / अनात्मवेदने ज्ञाने जगदान्ध्यं प्रसंज्यते प्रत्यक्षं च परोक्षं च ग्राहकं नोपपत्तिमत् / बाधनात् संशयाद्यासे सूक्तं सामान्यलक्षणम् वेदेश्वरादयो नैव प्रमाणं बाधसंभवात् / प्रमाणं बाधवैकल्यादहँस्तत्त्वार्थवेदनः // 6 // वचसोऽपौरुषेयत्वं नाऽविशेषात् पटदिवत् / स्वरूपेण विशेषेण न सिद्धं भूधरादिषु विरुद्धं चेष्टघातेन न कार्यं कर्तृसाधनम् / प्रकृतेरन्तरज्ञानं पुंसो नित्यमथाऽन्यथा नित्यत्वे सर्वदा मोक्षोऽनित्यत्वे न तदुद्भवः / कालवैपुल्ययोग्यत्वकुशलाभ्याससंभवे // 9 // आवृतिप्रक्षयाज्ज्ञानं सार्वयमुपजायते / सदहेतुकमस्तीह सदैव क्ष्मादितत्त्ववत् // 10 // आहारासक्तिचैतन्यं जन्मादौ मध्यवत्तथा / अन्त्यसामग्र्यवद्धेतुः संपूर्णः कार्यकृत्सदा // 7 // // 8 // 18