________________ // 3 // श्रीमद्रत्ननन्दिविरचिता / जल्पकल्पलता // स्तबकः-१ वक्तृत्वं च कवित्वं च, विद्वत्तायाः फलं विदुः / न कवित्वं न वक्तृत्वं, सोऽधीतोऽपि नरः खरः वाग्गित्वं कवितान्वितं यदि तदा गङ्गाम्बुना दक्षिणावर्त्तःकम्बुरपूरि मञ्जरितवानुर्वीरुहः स्वर्गिणाम् / जातः शीतकरः कलङ्करहितः सौभाग्यवत्याः शिरस्याबद्धं मुकुटं स्फुरत्सुरभितालब्धाञ्चनं काञ्चनम् येषां कोमलकाव्यकौशलकलालीलावती भारती, तेषां कर्कशतर्कवक्रवचनोद्गारेऽपि किं हीयते ? / यैः कान्ताकुचमण्डले कररुहाः सानन्दमारोपितास्तैःकि मत्तकरीन्द्रकुम्भशिखरे नारोपणीया नखाः ? साहित्ये सुकुमारवस्तुनि दृढन्यायग्रहग्रन्थिले, तर्के वा मयि संविधातरि सम लीलायते भारती / शय्या वास्तु मृदूत्तरच्छदवती दर्भाङ्कुरैरास्तृता, भूमिर्वा हृदयङ्गमो यदि पतिस्तुल्या रतिर्योषिताम् साम्यं पिप्पलपारिजातकरभक्ष्माभूदृषद्द्युमणी खद्योतद्युतिमालिसागरसरःस्वारकूटादिवत् / षट्तर्कोपनिषन्निषण्णमतिना तल्लेशलब्धोष्मणामेतेन प्रभुणा भणामि भवतां जाघट्टि भट्टाः कथम् ? त्वत्तीरे तरुकोटरान्तरगतो गङ्गे ! विहङ्गो वरं, त्वनीरे नरकान्तकारिणि वरं मत्स्योऽथवा कच्छपः / नैवान्यत्र मदान्धसिन्धुरघटसचट्टघण्टरणत्कारत्रस्तसमस्तभूपललनालब्धस्तुतिर्भूपतिः 250 // 4 // // 5 //