________________ स्पर्शा मृदुकठिनगुरुलघुशीतोष्णस्निग्धरूक्षाः / रसाः तिक्तकटुकषायाम्लमधुराः / गन्धौ सुरभ्यसुरभी। कृष्णादयो वर्णाः / शब्दबन्धसौम्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तः पुद्गलाः / पुद्गला द्वेधा परमाणवः स्कन्धाश्च / सत्कर्मपुद्गलाः पुण्यम् / तद्विरीतं तु पापम् / बन्धस्य मिथ्यात्वाऽविरतिकषाययोगलक्षणहेतव आस्रवः / तन्निरोधःसंवरः / जीवस्य कर्मणा अन्योन्यानुगमात्मा संबन्धो बन्धः / बद्धस्य कर्मणः शाटो निर्जरा। देहादेरात्यन्तिको वियोगो मोक्षः / विरुद्धयोर्धर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थ साधनदूषणवचनं वादः / तत्प्रारम्भकश्चात्र जिगीषुस्तत्त्वनिर्णिनीषुश्च / स्वीकृतधर्मव्यवस्थापनार्थं साधनदूषणाभ्यां परं पराजेतुमिच्छजिगीषुः / तत्त्वं प्रतिष्ठापयिषुस्तत्त्वनिर्णिनीषुः / अयं च द्वेधा स्वात्मनि परत्र च। प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ / प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म / वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभाक्षान्तिमाध्य - स्थ्यैरुभयाभिमता: सभ्याः /