________________ विपरीतव्यतिरेकश्च यन्नामूर्तं तन्नापौरुषेयमिति / अनाप्तवचनप्रभवं ज्ञानमागमाभासः / सामान्यमेव विशेष एव वद्द्वयं वा स्वतन्त्रमित्यादिरस्य विषयाभासः // प्रमाणप्रतिपन्नाथैकदेशपरामर्शो नयः / द्रव्यार्थिकः पर्यायार्थिकश्च / आद्यो नैगमसङ्ग्रहव्यवहारभेदात् त्रेधा / अन्यान्यगुणप्रधानभूतभेदाभेदप्ररूपणो नैगमः / धर्मद्वयादीनामेकान्तिकप्रार्थक्याभिसन्धि गमाभासः / सामान्यमात्रग्राही परामर्शः सङ्ग्रहः / द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषानिनुवानस्तदाभासः / सद्विशेषप्रकाशको व्यवहारः / यः पुनरपारमार्थिकं द्रव्यपर्यायप्रविभागमभिप्रेति स व्यवहाराभासः / पर्यायार्थिकश्चतुर्धा / ऋजुसूत्रः शब्दः समभिरूढ एवम्भूतश्च / सर्वथाद्रव्यापलापी तदाभासः / कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः तभेदेन तस्य तमेव समर्थयमानस्तदाभासः / पर्यायध्वनिभेदादर्थनानात्वनिरूपकः समभिरूढः // पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः // क्रियाश्रयेण भेदप्ररूपणमेवम्भूतः / . क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपन् तदाभासः / नयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिनिषेधाभ्यां सप्तभङ्गीमनुव्रजति। चैतन्यलक्षणः परिणामी ज्ञानादिधर्मभिन्नाभिन्नःकर्ता साक्षाद्भोक्ता स्वदेहपरिमाणः प्रतिशरीरं भिन्नः पौद्गलिकादृष्टवाँश्च जीवः / स च द्विविधो मुक्तः सांसारिकश्च / एतद्विपरीतोऽजीवः / स च धर्माधर्माकाशकालपुद्गलभेदात्पञ्चविधः / पुद्गलाः स्पर्शरसगन्धवर्णवन्तः। . 255