________________ अनुपलब्धेरपि द्वैरुप्यमविरुद्धानुपलब्धिविरुद्धानुपलब्धिश्च / . तत्राविरुद्धानुपलब्धिः प्रतिषेधसिद्धौ सप्तधा स्वभावव्यापककार्यकारणपूर्वोत्तरसहचरानुपलब्धिभेदात् // विरुद्धानुपलब्धिर्विधौ पञ्चधा विरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलम्भभेदात् // आप्तवचनाज्जातमर्थज्ञानमागमः / उपचारादाप्तवचनं च / . अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्तः / सहजसामर्थ्यसङ्केताभ्यामर्थबोध (निबन्ध) नं शब्दः / तस्य विषयः सामान्यविशेषाद्यनेकात्मकं वस्तु / अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात्पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेनार्थक्रियोपपत्तेश्च // सामान्यं द्वेधा तिर्यगूर्द्धवतादिभेदात् / विशेषश्च द्वेधा पर्यायव्यतिरेकभेदात् / अज्ञाननिवृत्तिर्हानोपादानोपेक्षाश्च फलम् / तत्प्रमाणाद् भिन्नमभिन्नं च, प्रमाणफलत्वान्यथानुपपत्तेः / प्रमाणस्वरूपादेरन्यत्तदाभासम् / अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासकनिर्विकल्पसमारोपाः प्रमाणस्य स्वरूपाभासाः / असिद्धविरुद्धानैकान्तिका हेत्वाभासाः // प्रमाणेनासिद्धान्यथानुपपत्तिरसिद्धः, परिणामी शब्दश्चाक्षुषत्वात् / विपरीतान्यथानुपपत्तिविरुद्धः, अनित्यः पुरुषः प्रत्यभिज्ञानादिमत्त्वात् / विपक्षेप्यविरुद्धवृत्तिरनैकान्तिकः अनित्यः शब्दः प्रमेयत्वात् / अन्वये दृष्टान्ताभासा असिद्धसाध्यसाधनोभयाः अपौरुपैयः शब्दः मूर्तत्वादिन्द्रियसुखपरमाणुघटवत् विपरीतान्वयश्च यदपौरुषेयं तदमूर्तं विद्युदादिनातिप्रसङ्गात् / व्यतिरेकेऽसिद्धतव्यतिरेकाः परमाण्विन्द्रियसुखाकाशवत् 254