________________ श्रीशुभविजयकृता ॥स्याद्वादभाषा // सम्यक्तत्त्वज्ञानक्रियाभ्यां निश्रेयसाधिगमः / जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षास्तत्त्वानि / स्वपरव्यवसायि ज्ञानं प्रमाणम् / तत्प्रामाण्यं स्वतः परतश्च / ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्यं / तदितरत्त्वऽप्रामाण्यमिति। तदुभयमुत्पत्तौ परत एव ज्ञप्तौ तु स्वतः परतश्चेति / तद् द्विविधं प्रत्यक्षं च परोक्षं च / स्पष्टं प्रत्यक्षम् / तद् द्विविधं सांव्यवहारिकं पारमार्थिकं च / तत्राद्यमिन्द्रियनिमित्तमनिन्द्रियनिमित्तं च / एतद्वितयमवग्रहेहावायधारणाभेदादेकैकंशश्चतुर्विकल्पम् / पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् / तद्विकलं सकलं च / अस्पष्टं परोक्षम् / स्मरणप्रत्यभिज्ञानतळानुमानागमभेदात्पञ्चप्रकारम् / अनुमानं द्विप्रकारं स्वार्थं परार्थं च / तत्र हेतुग्रहणसंबन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् / निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः / इष्टमबाधितमसिद्धं साध्यम् / पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् हेतुप्रयोगस्तथोपपत्त्याऽन्यथानुपपत्त्यैव वा / प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः / स द्वेधाऽन्वयव्यतिरेकभेदात् / हेतोरुपसंहार उपनयः / प्रतिज्ञायास्तूपसंहारो निगमनम् / स हेतुर्द्विधा उपलब्ध्यनुपलब्धिभेदात् / उपलब्धेरपि द्वैविध्यमविरुद्धोपलब्धिविरुद्धोपलब्धिश्च, तत्राविरुद्धोपलब्धिविधिसिद्धो षोढा, साध्येनाविरुद्धव्याप्यकार्यकारणपूर्वचरोत्तरचरसहचरभेदात् / विरुद्धव्याप्याद्युपलब्धिः प्रतिषेधे षोढा / ... . 253