________________ स एवार्य जिनदत्तस्तथा गोपिण्ड एष सः / तत्तज्जातीय एवायं गोसदृग्गवयस्तथा // 56 // तर्कः प्रमाणमात्रेणोत्पलम्भानुपलम्भतः / संभवः कारणं यत्र कालत्रितयवर्तिनोः // 57 // साध्यसाधनयोक्प्त्याद्यालम्बनमिदं हि यत् / अन्वयव्यतिरेकाभ्यां संवेदनमिदं हि सः // 58 // यावान् कश्चिदयं स धूमनिकरः सत्येव वह्नौ भवेत्, यत्सत्वे(त्त्वे) प्रथमोऽन्वयो निगदितो यत्सत्त्वमेवोभयम् / धूमोऽत्रासति पावके भवति नो सद्यो द्वितीयोऽधुना, ज्ञातव्यो व्यतिरेक एष हि ततश्चैवान्यथा लक्षणम् // 59 // प्रतिबन्धोऽविनाभावसंबन्धो व्याप्तिरिष्यते / हेतुव्याप्तिसमायोगः परामर्शः स उच्यते // 60 // द्वेधानुमानं स्वार्थं च परार्थमुपचारतः / व्युत्पन्नानां तदैवेकं सहेतुवचनात्मकम् . // 61 // सद्धेतोर्ग्रहणं तथा स्मरणकं व्याप्तेस्तयोः संभवम्, साध्यज्ञानमतोऽनुमानमिदकं स्वार्थं सुधीभिधृतम् / . साध्यत्वं[च] तथाप्रतीतमिति तत् त्रेधा श्रुते विश्रुतम्, किं त्वस्मादनिराकृतं द्वयमिदं चाभीप्सितं तत् त्रयम् // 62 // साध्यधर्मविशिष्टेऽपि पक्षत्वं धर्मिणि श्रुतम् / अन्यथानुपपत्त्यैकलक्षणो हेतुरिष्यते // 63 // दमु(मू)नोमानयं देशः प्रोच्यते पक्षधर्मता / हेतूदितं धूमवत्त्वादनुमानं सुधीहितम् // 64 // हेतुप्रयोगतो द्वधा तथोपपत्तिरन्वयः / अन्यथानुपत्तिस्तु व्यतिरेकः पुरोदितः // 65 // 251 पचारतः /